________________
નાડોલના શિલાલેખ
१२७
તામ્રપત્ર (મહાજનની પાસે)
[३७]
ॐ स्वस्ति । श्रिये भवंतु वो देवा ब्रह्मश्रीधरशंकराः । सदा विसगवंतो ये जिना जगति विश्रुताः ॥१॥ शाकंभरी नाम पुरे पुरासीच्छ्रीचाहमानान्वयलब्धजन्मा। राजा महाराजनताहियुग्मः ख्यातोवनौ वाक्पतिराजनामा ॥२॥ नड्डूले समाभूत्तदीयतनयः श्रीलक्ष्मणो भूपतिस्तस्मात्सर्वगुणान्वितो नृपवरः श्रीशोभिताख्यः सुतः। तस्माच्छीबलिराजनामनृपतिः पश्चात् तदीयो महीख्यातो विग्रहपाल इत्यभिधया राज्ये पितृव्योऽभवत् ॥३॥ तस्मिन् तीवमहाप्रतापतरणिः पुत्रो महेंद्रोभवत्तजाच्छीअणहिल्लदेवनृपतेः श्रीजेंद्रराजः सुतः। तस्माद् दुर्धरवैरिकुंजरवधप्रोत्तालसिंहोपमः सत्कीर्त्या धवलीकृताखिलजगच्छीआशराजो नृपः ॥ ४॥ तत्पुत्रो निजविक्रमार्जितमहाराज्यप्रतापोदयो यो जग्राह जयश्रियं रणभरे व्यापाय सौराष्ट्रिकान् । शौचाचारविचारदानवसतिर्नड्डूलनाथो महासंख्योत्पादितवीरवृत्तिरमलः श्रीअल्हणो भूपतिः ॥ ५॥ अनेन राज्ञा जनविश्रुतेन, राष्ट्रौढवंशजवरासहुलस्य पुत्रः । अन्नश्रदेवीरिति शीलविवेकयुक्ता, रामेण वै जनकजेव विद्याहितासौ॥६॥आभ्यां जाताः सुपुत्रा विमलधियो रूपसौंदर्ययुक्ताः । शस्त्रैः शास्त्रैः प्रागल्भा प्रवरगुणगणास्त्यागवन्तः सुशीलाः । ज्येष्ठश्रीकल्हणाख्यस्तदनु च गजसिंहस्तत्तथा कीर्तिपालः । यद्वन्नेत्राणिशंभोस्त्रिपुरुषवदथामी जने वंदनीयाः॥७॥ मध्यादमीषां परिवारनाथो ज्येष्ठोगंजः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org