________________
નાડોલના શિલાલેખો
૧૨૧
परिहतमदमारक्रोधलोभादिवारः। दुरितशिखरिसम्बः स्वो वशीयं च सम्बस्त्रिभुवनकृतसेवा श्रीमहावीरदेवः ॥ १॥ अस्ति परम आजलनिधि जगतितले चाहुमाणवंशो हि तत्रासीत् नडूले भूपः श्रीलक्ष्मणादौ (?) ॥२॥ तस्मात् बभूव पुत्रो राजा श्रीसीहियास्तदनु सूनुः । श्रीबलिराजो राजा विग्रहपालोनु च पितृव्यं ॥३॥ तस्मात् तनुजो भूपालः श्री महेन्द्रदेवाख्यः । तज्जश्रीअणहिल्लो नृपतिवरोभूत् पृथुलतेजः ॥ ४॥ तत्सूनुः श्रीबालप्रसाद इत्यजनि पार्थिवश्रेष्ठः । तद्भाताऽभूत् क्षितिपः सुभटः श्रीजेंद्रराजाख्यः ॥ ५ ॥ श्रोपृथिवीपालोऽभूत् तत्पुत्रः शौर्यवृत्तिशोभाढ्यः । तस्मादभवद् भ्राता श्रीजीजल्लो रणरसात्मा ॥ ६ ॥ तद्देवराजोभूच्छीमान् आशाराजः प्रतापवरनिलयः । तत्पुत्र:] क्षोणिपः श्रीअल्हणदेवनामाभूत् ॥७॥ यस्य प्रतापप्सालसकुलदिक्चक्रपृथुलविस्तारं। सिंचति सुदिताहितगणललनानयनसलिलौधैः ॥ ८॥ सोयं महाक्षितीशः सारमिदं बुद्धिमान् चिन्तयते । इह संसार असारं सर्वं जन्मादिजन्तूनां ॥ ९॥ यतः। गर्भस्त्रिकुक्षिमध्ये पललरुधिरवसामेदसाबद्धपिण्डो,मातुः प्राणांतकारी प्रसवनसमये प्राणिनां स्थास्नुजन्मा। धर्मादीनामवेत्ता भवति हि नियतं बालभावस्ततः स्यात् , तारुण्यं स्वल्पमात्रं स्वजनपरिभवस्थानता वृद्धभावः ॥ १० ॥ खद्योतोद्योततुल्यः क्षणमिह सुखदाः सम्पदो दृष्टनष्टः, प्राणित्वं चंचलं स्याद्दलमुपरि यथा तोयबिन्दुर्नलिन्याः । ज्ञात्वैमं स्वपित्रोः स्पृहयन्नमरतां चैहिकं धर्मकीर्ति; देशान्तो राजपुत्रान् जनपदगणान् बोधयत्येव वोस्तु ॥११॥ सं० १२१८ वर्षे श्रावण सुदि १४ रखौ अस्मिन्नेव महाचतुर्दशीपर्वणि । स्नात्वा धौतपटे निवेश्य दहने दत्वाहुतीन् पुण्यकृन्मार्तण्डस्य तमःप्रपाटनपटोः सम्पूर्या चाऱ्यांजलिं। त्रिलोकस्य प्रभुः चराचरगुरु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org