________________
श्रीनेमिमण्डपे तुङ्गे, कुले च विपुले निजे।
कल्याणकलशं दिष्ट्या, स धीमानध्यरोपयत्।।७२३ ।। अम्बिकायाश्च सदने, मण्डपोऽनेन कारितः ।
आरासनीयार्हदेवकुलिका चात्र सूत्रिता ।।७२४ ।। अम्बिकाया: परिकरश्चारुरारासनाश्मना।
विशदेन निजेनेव, यशसा तेन कारितः ।।७२५॥ तदीयशिखरे नेमिं, चण्डपश्रेयसे च यः।
मूर्ति रम्यां तदीयां च, मल्लदेवस्य च व्यधात्।।७२६ ।। चण्डप्रसादपुण्यं वर्द्धयितुंयोऽवलोकनाशिखरे।
स्थापितवान्नेमिजिनं, तन्मूर्ति स्वस्य मूर्तिं च ।।७२७ ।। प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम्।
सोममूर्ति तथा तेज:पालमूर्ति च योऽतनोत् ।।७२८॥ य: शाम्बशिखरे नेमिं, जिनेन्द्र श्रेयसे पितुः ।
तन्मूर्ति मातृमूर्ति च, कारयामास भक्तित: ।।७२९ ।। श्रीनेमिनाथभवनं, कल्याणत्रितयसंज्ञया विदितम् ।
तेज:पालसचिवो, विदधे विमलाश्मभिस्तुङ्गम्।।७३०॥ सप्तशत्या चतुःषष्ट्या, हेमगद्याणकैर्नवम्।
तन्मौलौ कलशं प्रौढं, न्यधादेष विशेषवित् ।।७३१।। तत्र नेमीश्वर: स्वामी, त्रिरूपेण स्वयं स्थितः ।
प्रणतो दुर्गतिं हन्ति, स्तुतो दत्ते च निर्वृतिम् ।।७३२ ।। तत्र श्रीनेमिनाथस्य, स्नात्रं पञ्चामृतैः सृजन्।
प्राणी परभवे प्रौढां, प्राप्नोति पदवीं पराम् ।।७३३ ।। उपवासत्रयेणात्र, कायोत्सर्गेण तिष्ठतः।
गिरनार: अंथोनी गोटमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org