________________
यो मासद्वितयोपवासमुदित: श्रीअम्बिकादेशतो, गत्वा हैमबलानके मणिमयीं श्रीनेममूर्तिं पराम् । आनीयात्र नरायणेन रचिते चैत्ये पुरातिष्ठिपत्, श्रीब्रह्मेन्द्रविनिर्मितां स जयतात् श्रीरत्नामार्हतः ।।६१७।।
બે માસના ઉપવાસની મુદિત થયેલા એવા જેણે અંબિકા દેવીના આદેશથી હૈમબલાનક પર જઈને શ્રી બ્રહેન્દ્ર વડે નિર્મિત, મણિમય શ્રી નેમિનાથ પ્રભુની પ્રભાવશાળી પ્રતિમા લાવીને કૃષ્ણ વડે કરાવેલા ચૈત્યમાં સ્થાપન કરી એવા શ્રી રત્નશ્રેષ્ઠી શ્રાવક જય પામો.
श्रीउज्जयन्ताचलतीर्थभूमौ, सद्धर्मकृत्यानि कृतानि यानि। ____मन्त्रिद्वयेनाद्भुभाग्यभाजा, सङ्केपतस्तान्यधुना ब्रवीमि ।।६९८ ।। रैवताचलचूलायां, पृष्ठे श्रीनेमिवेश्मनः।
शत्रुज्जयपतेश्चैत्यमात्मश्रेयोऽभिवृद्धये ॥६९९ ।। मन्त्री वास्तोस्पतेर्वस्तुपालो विध्वस्तकल्मषम्।
वस्तुपालविहाराख्यमकार्षीदेष कीर्तनम् ।।७०० ।। चञ्चत्काञ्चनकान्तकुम्भकलितं प्रेवत्पताकान्वितं,
कैलाशाचलसोदरं दिविषदामप्यद्भुतस्यास्पदम्। प्रासादं नयनातिथिं विरचयन् श्रीमद्युगादिप्रभोरानन्दं
हृदये बभार परमं कस्को मनस्वी न हि |७०१॥ मूर्ति: कार्तिकसोममण्डलदलान्यादाय किं निर्मिता,
किं वा दुग्धपयोधिमध्यलहरीसारैरुदारैः प्रभोः । दृष्टा दृष्टिमहोत्सवैकजननी श्रीनाभिभूमिभृतः,
पुत्रस्यातिपवित्रकान्तिकलिता दत्ते विकल्पानिति ।।७०२ ।।
गिरनार: ग्रंथोनी गोमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org