________________
श्रीशत्रुजय-गिरिराज-दर्शनम् बिरुधधारक-सकलदेशाष्टान्हिकामारिप्रवर्तावकयुगप्रधानश्रीजिनचंद्रसू रि--अकबरसाहिरंजकविविधजीवदयालाभग्राहकसुरताणनूरदीजहांगीरसवाइप्रदत्त-युगप्रधानविरुदधारक-युगप्रधानश्रीजिनसिंहसू रि-पट्टविभूषण-बोहित्थवंशीय सा० धर्मसी धारलदे नंदन भट्टारकचक्रचूडामणि-श्रीजिनराजसुरिसूरिदिनमणिभिः ॥ आचार्य-श्रीजिनसागरसूरि पं०आनंदकीर्ति-स्वलघुसहोदर वा० भद्रसेनादिसत्परिकरैः ।
ले० १९ देरीन० ५४७ ॥ ॐ ॥ स्वस्ति श्रीवत्सभर्तापि न विष्णुश्चतुराननः । न ब्रह्मा यो वषांकोपि न रुद्रः स जिनः श्रिये ॥ १ ॥ संवत् १६७५ वर्षे शाके १५४१ प्रवर्त्तमाने । समग्रदेशश्रृंगार-हाल्लार-तिलकोपमम् । अनेकेभ्यः गृहाकीर्ण-नवीन-पुर-मुत्तमम् ॥ २ ॥ अभ्रंलिह-विहारान-ध्वजांशुक-हृतातपम् । रुप्य--स्वर्ण-मणि-व्याप्तं चप्तुपथ-विराजितम् ॥ ३ ॥ युग्मम् ॥ तत्र राज्यं प्रशास्ति श्रीजसवंताभियो नृपः ॥ याम श्रीशत्रुशल्या व्हकुलांवर–नभोमणिः ॥ ४ ॥ यत्प्रतापामि-संताप-संतप्त ईव तापनः । निर्माति जलधौ नित्यमुन्मज़्जननिमज्जने ॥ ५ ॥ युग्मम् ॥ वभूवुः श्रीमहावीर-पट्टानुक्रम-भूषणाः ॥ श्रीअंचलगणाधीश आर्य्यरक्षितसूरयः ॥ ६ ॥ तत्पट्टपकजादित्याः सू रिश्रीजयसिहकाः । श्रीधर्मघोषसूरींद्रा महेन्द्राः सिंहसूरयः ॥ ७ ॥ श्रीसिंहप्रभसूरीशाः सूरयोऽजितसिंहकाः । श्रीमद्देवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥ ८ ॥ श्रीसिंहतिलकाव्हाश्च श्रीमहेन्द्रप्रभाभिधाः । श्रीमतो मेरुतुंगाख्याः वभू वुः सूरयस्ततः ॥९॥ समग्रगुण-सपूर्णाः सू रिश्रीजयकीर्तनः । तत्पयहेऽथ सुसाधुश्रीजयकेसरिसूरयः ॥ १० ॥ श्रीसिद्धांत-समुद्राख्य–सूरयो भूरिकीर्तयः । भावसागरसूरींद्रा-स्ततोऽभूवन् गणाधिपाः ॥ ११ ॥ श्रीमद्गुणनिधानाख्य-सूरयस्तत्पदेऽभवन् । युगप्रधानाः श्रीमतः सू रीश्रीधर्ममूर्तयः ॥ १२ ॥ तत्पट्टोदयशैलाग्र-प्रोद्यत्तरणि-संनिभाः । जयंति सू रिराजः श्रीयुतः कल्याणसागरा: ॥ १३ ॥ श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः । इभ्यः श्रीहरपालाव्ह आसील्लालण-गोत्रकः ॥ १४ ॥ हरीयाख्योऽथ तत्पुत्रः सिंहनामा तदंगजः ॥ उद्देसीत्यथ तत्पुत्रः पर्वताव्हरततोऽभवत् ॥ १५ ॥ वच्छूनामाऽथ तत्पत्नी चाभूद् वाच्छलदेविका ॥ तत्कुक्षिमानसे हंसतुल्याऽथाऽमरसंज्ञकः ॥ १६ ॥ लिगदेवीति तत्पत्नी तदोरस्या-स्त्रयो वराः । जयंति श्रीवर्धमानचांपसी-पद्मसिंहकाः ॥ १७ ॥ 'अतः पर विशेषतः साहि वर्धमान-साहिपद्मसिंहयोवर्णनम् । गांभीर्येण समुद्राभौ दानेन धनदोपमौ । श्रद्धालु-गुण-संपूर्णो बोधिना श्रेणिकोपमौ ॥ १८ ॥ प्राप्त-श्रीयाम-भूपाल-समाजबहुलादरौ ॥ मंत्रिश्रीवर्धमान-श्रीपद्मसिहौ सहोदरौ ॥ १९ ॥ महीला वर्धमानस्य वन्नादेवीति विश्रुता । तदंगजौ वुभौ ख्यातौ, वीराख्यविजपालकौ ॥ २०॥ वर्णिनी पद्मसिहस्य रत्नगर्भा सुजाणदे ॥ श्रीपालकुंरपालाव्ह-रणमल्लास्तदंगजाः ॥ २१ ॥
(१४)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org