________________
पृ०११६. पं० ८.] टिप्पणानि ।
११३ जीव एव स्वाज्ञानवशात् जगदुपादानं निमित्तं च । दृश्यं सर्व प्रातीतिकम् । देहभेदाच जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदाात् आत्मसाक्षात्कारे सति मोक्षः । शुकादीनां च मोक्षश्रवणं अर्थवादः । महावाक्ये च तत्पदं अनन्तसत्यादिवद् अज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकम् इत्याद्यवान्तरभेदाः स्वयमूहनीयाः" - सिद्धान्तबिन्दु पृ० २३२ । अद्वैत. पृ० ५३३ । सिद्धान्तलेश पृ० ३५०-३५६। ।
पृ०१००. पं०८]. 'किं च सप्रकारम्' - 'किश्च सप्रकारम्' इत्यारभ्य 'अनुद्भावनाहः' इति यावत् पाठः 'त'प्रतावेव न 'अ-ब'प्रत्योः । अप्रेतनश्च 'किश्च निष्प्रकारकज्ञानस्य' इत्यारभ्य 'अज्ञाननिवृत्तिः' इति यावत् पाठः 'अ-ब'प्रत्योरेव न 'त'प्रतौ । तथापि अर्थदृष्ट्या द्वयोरपि समुचितत्वं भाति इति द्वयोरपि ग्रहणं कृतम् । पौर्वापर्यगपि अनयोस्तथैव समुचितं भाति यथा अस्माभिरुपन्यस्तम् - वेदान्तक० पृ० २९ । सिद्धान्तलेश पृ० ४७०। . अद्वैतसिद्धि पृ० ६७८ । [ पृ०१०८. पं० ६] 'फलव्याप्यत्वमेव' - व्याख्या - “फलव्याप्यत्वमिति - फलं वृत्तिप्रतिबिम्बितचिदाभासः तद्व्याप्यत्वमेव अस्य प्रत्यगात्मनो निराकृतं स्वस्यैव स्फुरणरूप. त्वादिति भावः ॥ ९० ॥ इदानीमात्मनि ततो वैलक्षण्यं दर्शयति ब्रह्मणीति प्रत्यग्ब्रह्मणोरेकत्वस्य अज्ञानेन आवृतत्वात्तस्य अज्ञानस्य निवृत्तये वाक्यजन्यया अहं ब्रह्मास्मीत्येवमा-॥ कारया धीवृत्त्या व्याप्तिरपेक्ष्यते ॥ ९२ ॥” पञ्चदशी टीका । अद्वैत. पृ. २३९ । [पृ०१०९.५०७]. 'वियद्वस्तु' - व्याख्या -- “प्रामस्य चैत्रेण व्याप्ती व्याप्तुश्चैत्रस्य स्वगतविकारवद् बुद्ध्यादेश्चिदात्मव्याप्तौ आत्मनोपि विकारप्रसङ्गात् न वेदान्तवेद्यस्य कूटस्थता इत्याशङ्कयाह - वियदिति । यथा कुम्भस्योत्पत्तौ वियता पूर्णता वियतः सर्वगतत्वस्वरूपानुरोधादेव न क्रियावत्वात् तथा धियां तद्वृत्तीनां तद्धर्माणां च हगात्मना व्याप्तिः तद्गतक्रियां । विना पूर्णचित्स्वरूपावेशादेव अतो युक्ता वेदान्तवेद्यस्य कूटस्थता इत्यर्थः ।" -- संबंधवा० ५४३ । [पृ०१०९. पं०७]. 'घटदुःखादि' - व्याख्या - "आत्मनो विकारादृते बुद्ध्यादिव्याप्तौ बुद्ध्यादेरपि विना विकारं बाह्यान्तरविषयाकारभजनं स्यात् बोद्धृत्वाविशेषात् अन्यथा आत्मनोऽपि विकारद्वारैव बुद्ध्यादिव्याप्तेरकूटस्थता इति चेन्नेत्याह - घटेति । बुद्धे डाकारभजनम् अदृष्टकृतं न वारसिकं बुद्धिबोध्ययोरुभयोरपि परिच्छिन्नत्वात् धर्मादेश्व साभासबुद्धिविक्रियात्वात् युक्तं बुद्धेर्विकारद्वारा विषयाकारत्वमित्यर्थः।” बृहदा० संबंध० ५४२ । [पृ०११६. पं०८'एकजीवमुक्ति' - "अथायं जीव एकः, उतानेकः ?। अनुपदोक्तपक्षावलम्बिनः केचिदाहुः - ‘एको जीवः, तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणीव निर्जीवानि । तदज्ञानकल्पितं सर्व जगत्, तस्य स्वप्नदर्शनवद्यावदविद्यु सर्वो व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति, जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि स्वानपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च संभावितसकलशङ्कापङ्कप्रक्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम्' इति । ___ अन्ये त्वस्मिन्नेकशरीरकजीववादे मनःप्रत्ययमलभमानाः 'अधिकं तु भेदनिर्देशात्' 'लोकवत्तु लीलाकैवल्यम्' इत्यादिसूत्रैर्जीवाधिक ईश्वर एव जगतः स्रष्टा न जीवः । तस्याप्त
ज्ञा० १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org