________________
ज्ञानबिन्दुप्रकरणस्य [पृ०७४. पं०२उपओगो अओ विसेससामन्नत्थेसु उवजुजइ जाणइ पासइत्ति भणियं न दोसो इति"नन्दी० म०पृ. १०९।। [ पृ०७४. पं० २१ सर्वविषयम्' - आव. नि. ७६ । विशेषा० गा० ८२३-८२८,१३४१-४५। [पृ०७४. पं० ५'प्रतीत्यसमुत्पाद' - "तत्र कतमः प्रतीत्यसमुत्पादो नाम । यदिद'मविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम् , विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्यय षडायतनम् , षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम् , उपादानप्रत्ययो भवः, भवप्रत्यया जाति:, जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्यादयः । तत्राविद्या कतमा-एतेषामेव षण्णां धातूनाम् यैकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा मनुज" संज्ञा मानवसंज्ञा अहङ्कारममकारसंज्ञा एवमादिविविधमज्ञानमियमुच्यते अविद्या । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्त्तन्ते, तत्र ये रागद्वेषमोहा विषयेषु अमी अविद्याप्रत्यया संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् , चत्वारि महाभूतानि च उपादानानि रूपम् ऐकध्यरूपम् , विज्ञानसंभूताश्चत्वारोऽरूपिणः स्कन्धा नाम, तन्नामरूपम् । नामरूपसनिश्रितानि इन्द्रियाणि पडायतनम् । त्रयाणां धर्माणां सन्निपातः स्पर्शः । स्पर्शानुभवो ॥ वेदना। वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म भवः । भवहेतुकः स्कन्धप्रादुर्भावो जातिः । जात्यमिनिवृत्तानां स्कन्धानां परिपाको जरा । स्कन्धविनाशो मरणमिति ।" बोधिच० पं० पृ. ३८६ । शिक्षा० पृ० २२२ । मूलमध्य० पृ० ५९४ । मध्यान्त. पृ. ४२ । अभिधर्मकोष ३.२०-२४ । [पृ०७६६. पं०४] 'प्रमाणं च तत्र' - "यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चया" तीन्द्रियग्रहणमल्पं बहिति सर्वज्ञवीजम् , एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञवीजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिानस्य स सर्वज्ञः । स च पुरुषविशेष इति” । योगभाष्य० १.२५ । तत्त्ववै० १.२५ । तत्त्वसं० पं० का० ३१६० । [पृ० ७७. पं० २ ] 'शास्त्रभावना' -
"मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ ___ मनो हि सर्वविषयम्', न तस्याऽविषयः कश्चिदस्ति, अभ्यासवशाचातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते" इत्यादि । न्यायम• प्रमाण• पृ. ९७ । न्यायवा. पृ० २५ । न्यायवा० ता. पृ० ७० । नैष्कर्म्यसिद्धि पृ० ३८ । [ पृ०७७. पं०37 'सामर्थ्ययोग
"शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः।
शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥" योगदृष्टि• का० ५। [पृ०७७.. पं०९ ] 'प्रातिभनामधेये' - "आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वथेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद् धर्मविशे च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्पमित्याचक्षते । तत् तु प्रस्तारेण
For Private & Personal Use Only
-
"शास्त्रसदा
Jain Education International
www.jainelibrary.org