________________
१०२
ज्ञान बिन्दुप्रकरणस्य
[ ४० ४६. पं० ३
1
मध्ये योऽपायोंऽशः तन्मतिज्ञानं परोक्षं प्रमाणमिति । अवग्रहेहयोरनिश्चितत्वान्न समस्ति प्रामाण्यम् । स चापायः सद्द्रव्यानुगतो यदि न भवति तन्मिथ्यादृष्टेरिव अशुद्धदलिककलुषितः, अतो थोऽपायः सद्द्रव्यानुवर्ती सप्रमाणं मतिभेदः । यदा तर्हि दर्शनसप्तकं क्षीणं भवति सदा द्रव्यभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य १ । उच्यते - सद्रव्यतया इत्यनेन अर्थत इदं कथ्यते --- सम्यग्दृष्टेर्योऽपायांशः इति । भवति चाऽसौ सम्यग्दृष्टेरपायः । अथवा एकशेषोऽत्र दृष्टव्यः.... इदमुक्तं भवति - अपायसद्द्रव्यानुगतो यः अक्षीणदर्शन सप्तकस्य स परिगृहीतः एकेन अपायद्रव्यशब्देन, तथा द्वितीयेन अपायो यः सद्रव्यं शोभनं द्रव्यम्, कचपायः सव्यम् १ यः क्षीणदर्शन सप्तकस्य भवति । एतेनैतदुक्तं भवति - सम्यग्दर्शननः क्षीणाक्षीणदर्शन सप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् ।" तत्त्वार्थ० टी० १११ ।
" तस्वार्थ० यशो० ।
J
[ पृ० ४६. पं० ३] 'सम्यक्त्वानुगतत्वेन' - " सदसतोरविशेषाद् यदृच्छोरुपलब्धेरम्मतवत्" तत्त्वार्थ १।३३ ॥
"
" अविसेसिया मइ चिय सम्मद्दिट्ठिस्स सा महण्णाणं । अन्नाणं मिच्छद्दिट्ठिस्स सुयं पि एमेव ॥ सदसदविसेसणाओ भवहेउजदिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिट्ठिस्स अण्णाणं ।।" विशेषा० ११४,११५,३२९,३३० ॥ [ ४० ४६. पं० ५ ]. 'संशयादीनामपि ' -
" नाणं चिय संसयाईया ॥ ३१४ ॥
नास्माभिः 'समीहितवस्तुप्रापकं ज्ञानं, इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणाप्रमाण* भूते ज्ञानाऽज्ञाने विचारयितुमुपक्रान्ते, किन्तु ज्ञायते येन किमपि तत् सम्यग्दृष्टि संबन्धि ज्ञानम् इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् ; वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते इति न तेषामपि समग्दृष्टिसंबन्धिनां ज्ञानत्वहानि: ।
ts
20
कथं पुनः संशयादयो ज्ञानम् १ - इत्याह
वत्थुस्स देसगमगत्तभावओ परमयप्यमाणं व ।
हि वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ ३१५ ॥
वस्त्वेकदेशगमकाच संशयादयः ततस्ते ज्ञानम् । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति कथं बस्त्वेकदेशविज्ञानहेतवः संशयादय: ? । वस्तुनो निरंशत्वेन देशस्यैवाभावाद् न त एकदेशप्राहिणो घटन्त इति परस्याभिप्रायः । आचार्यः प्राह - शृणु । यथाप्रतिज्ञातमेवाह - इह वत्थुमत्थवयणाइपञ्जयाणंतसचिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ।। ३१६ ।।
इह षस्तुनो घटादेर्मृन्मयत्व - पृथुबुध्नत्व- वृत्तत्व-कुण्डलायतप्रीवायुक्तत्वादयोऽर्थरूपाः पर्यायाः अर्थपर्याया अनन्ता भवन्ति । घट- कुट-कुम्भ- कलशादयस्तु वचनरूपाः पर्याया 'पर्यायास्तेऽप्यनन्ता भवन्ति । आदिशब्दात् परव्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते । न स् वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org