________________
१००
ज्ञानबिन्दुप्रकरणस्य [पृ०३६ पं० ११मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षरद्रव्यश्रुतविषयां शब्दार्थपर्यालोचनात्मिकां शेषोपलब्धिम् , तस्याः श्रुतज्ञानरूपत्वात् । यच्च द्रव्यश्रुतव्यतिरेकेण अन्योऽपि शेषेन्द्रियेषु अक्षरलाभः शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतम् न तु केवलोऽक्षरलाभः । केवलो हि अक्षरलाभः मतावपि ईहादिरूपायां भवति न च सा श्रुतज्ञानम् । अत्राह - ननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतम् तर्हि यदवधारणमुक्तम् - श्रोत्रेन्द्रियेण उपलब्धिरेव श्रुतमिति तद्विघटते शेषेन्द्रियोपलब्धेरपि संप्रति श्रुतत्वेन प्रतिपन्नत्वात् ; नैष दोषः, यतः शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी च अक्षरलाभ: श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिदोषः।" नन्दी० म० पृ० १४२ । विशेषा० टी० गा० १२३ । [पृ०३६ पं० ११]. 'अक्षरलाभश्च य
“सो वि हु सुयक्खराणं जो लाभो तं सुयं मई सेसा ।
जइ वा अक्खरचिय सा सव्वा न प्पवत्तेजा ॥ १२६ ॥ सोपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतम् । यः किमित्याह - यः श्रुताक्षराणां लाभः, न सर्वः,- यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलामा, स श्रुतम्, न त्वश्रुतानुसारी- ईहापायादिषु परिस्फुरदक्षरलाभमात्रनित्यर्थः । यदि पुनरक्षर"लाभस्य सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्यते, तदा सा यथाऽवग्रहावायधारणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वापि न प्रवर्तेत, सर्वापि मतित्वं नानुभवेदित्यर्थः, किन्तु अनक्षरत्वात् अवग्रहमात्रमेव मतिः स्याद् न त्वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छृतानुसार्येवाक्षरलाभः श्रुतम् , शेषं तु मतिज्ञानम् ॥"- विशेषा० टी० । [पृ०३७ पं० १]. 'नन्वेवं शेषेन्द्रि' - "अथ परः पूर्वापरविरोधमुद्भावयन्नाह -
जइ सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं ।
सोओवलद्धिरेवक्खराइं सुइ संभवाउ ति ॥ १२५ ॥ ननु याक्तन्यायेन शेषेन्द्रियाक्षरलाभोपि श्रुतम् , तर्हि, 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं तदसंगतम् , शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात्" इत्यादि - विशेषा• टी.। [ पृ०३७ पं० ३]. 'श्रोत्रेन्द्रियोप०' - विशेषा• टी• गा० १२७ । -[ पृ०३७ पं० ३]. 'द्रव्यश्रुतपदेन' -विशेषा• गा० ४६७,४६८। [पृ०३७ पं०६7. 'त्रिविधाक्षरश्रुत' - "से किं तं अक्खरसुअं ? अक्खरसुअं तिविहं पन्नत्तं, तं जहा-सन्नक्खरं वंजणक्खरं लद्धिअक्खरं ।"- नन्दी० सू० ३९ । विशेषा• गा. ४६४-४६६ । [ पृ०३८. पं० ४] 'नानवगृहीत' --
"ईहिजइ नागहियं नजइ नाणीहियं न याऽनायं ।
धारिजइ जं वत्थु तेण कमोऽवग्गहाई उ ॥" इत्यादि - विशेषा० गा० २९६-२९९ । [पृ०४०. पं०२]. 'तत्र व्यञ्जनेन' - विशेषा• गा० १९४ । जैनतर्कभाषा• पृ० ३५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org