________________
ज्ञानबिन्दुप्रकरणस्य . [पृ०२८ ५०१ - तावन्मात्रेणं तस्य श्रुतज्ञानाभावो व्यवस्थाप्यते किन्तु स्वापाचवस्थोत्तरकालं व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदाऽऽसीदिति व्यवह्रियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभावः, तथापि आवरणक्षयोपशमरूपं भावश्रुतमवसेयम् । परमयोगिभिदृष्टत्वात् , वहयादिष्वाहार-भयपरिप्रहमैथुनसंज्ञादेस्तलिङ्गस्य दर्शनाचेति ।। • आह-ननु सुप्तयतिलक्षणदृष्टान्तेपि तावद् भावभुतं नावगच्छामः, तथाहि -श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम् , श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसाधोः श्रुतमभ्युपगम्यते । । तत्रायः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसम्भवात् । द्वितीयोऽपि न सङ्गतः, तत्र शब्दस्य वाच्यत्वात् , तस्यापि च स्वपतोऽसम्भवाविति । सत्यम् , किन्तु शृणोत्यनेन, अस्माद्, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरणश्योपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चास्तीति न किंचित् परिहीयते ।" विशेषा• टी• गा.१.१।
"यस्स मुप्तसाधोर्भाषा-श्रोत्रलब्धिरस्ति तस्योत्थितस्य परप्रतिपादन-परोदीरितशब्दश्रवणादिलक्षणं भावभुतकार्य दृश्यते, तदर्शनाच सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदिति अनुमीयते यस्य त्वेकेन्द्रियस्य भाषा-श्रोत्रलब्धिरहितत्वेन कदाचिदपि श्रुतकार्य नोपसभ्यते, तस्स कथं तदस्तीति प्रतीयते ।
अत्रोत्तरमाह-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाऽभावेऽपि भावेन्द्रियज्ञानं किंचिद् श्यत एव, वनस्पत्याविषु स्पष्टतलिङ्गोपलम्भात्, तथाहि-कलकण्ठोद्गीर्णमधुरपञ्चमोद्गारभवणात सचः कुसुम-पल्लवादिप्रसवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिगमवलोक्यते । तिलकादितरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्च चक्षुरिद्रियज्ञानस्य, चम्पकाहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घाणेन्द्रियज्ञानस्य, बकुलाविभूरहेषु तु रम्भातिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारणीगण्डुषास्वादनात् वाविष्करणं रसनेन्द्रियज्ञानस्य, करवकादिविटपिध्वशोकाविठ्ठमेषु च धनपीनोमतकठिमकुचकुम्भविभ्रमापभाजितकुम्भीनकुम्भरणन्मणिवलयक्वणकरणाभरणभूषितभव्यभामिनी• मुजलताऽवगृहनसुखात् निष्पिष्टपपरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच झगिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्ताभावे भावभुतमपि भविष्यति । दृश्यते हि जलायाहारोपजीवनाद् वनस्पत्यादीनामाहारसंक्षा, सशेषनवश्यादीनां तु हस्तस्पर्शादिमीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहकतिलकपम्पककेशराऽशोकादीनां तु मैथुनसंज्ञा दर्शितेव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भाषश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपञ्चकज्ञानवद् भावभुतावरणक्षयोपशमसदाबाद् द्रव्यभुताभावेऽपि यच यावर भाषश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण । तर्हि 'ज विष्णाणं सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि प्राप्नोति, श्रुतानुसारित्वमन्वरेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org