________________
६६
ज्ञानविन्दुप्रकरणस्य [पृ०२०५०३पूर्वोका एष सप्तदश प्रकृतयश्चतुषिद्धयेकस्थानकरसाः उच्यन्ते, न शेषाः प्रकृतयः१।" पर. म.प्र. गा० ५१ पृ. १४५।
"अन्न सूरिराह-जलरेखासमेऽपि जलरेखातुल्येऽपि कषाये संज्वलनलक्षण उदयमागते न केवलद्विकस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको रसो भवति, कुत ? • इत्याह - यत् यस्मात् 'से' तस्य केवलद्विकस्य तनुकमपि सर्वजघन्यमप्यावरणं रसलक्षणं हु निश्चितं सर्वघाति भणितं तीर्थकरगणधरैः, सर्वजघन्योऽपि रसस्तस्य सर्वघाती भणित इति भावार्थः । सर्वघाती च रसो जघन्यपदेऽपि द्विस्थानक एव भवति नैकस्थानका, ततो न केवलद्विकस्यैकस्थानरसबन्धसम्भवः । पञ्च० म०प्र० गा० ५२ पृ० १४५। E पृ०२० पं० ३] पंचसंग्रहमूलटीकायाम्' - मोहनीयस्योपशमभावे सति औपशमिक. सम्यक्त्वसर्वविरतिरूपौ गुणो जीवस्य प्रादुर्भवतः । घातिकर्मणां क्षयोपशमभावे मति: चारित्रादयो गुणाः प्रादुर्भवन्ति । आह -ज्ञानदर्शने परित्यज्य चारित्रादयो गुणाः किमिति: अभिधीयन्ते १ । उच्यते- ज्ञानदर्शनयोस्तद्भावेऽवश्यम्भावित्वज्ञापनार्थ घातिकर्मप्रकृतिषु च कासुचिदपि क्षयोपशमभावाभावज्ञापनार्थ च चारित्रादयो गुणा अभिहिताः । तत्र मतिभानावरणादिक्षयोपशमे सति मत्यादीनि चत्वारि ज्ञानानि । चक्षुर्दर्शनावरणादीनां क्षयो" पशमे सति दर्शनत्रयम् । एवमन्तरायक्षयोपशमे सति दानादिपञ्चलब्धयो भवन्ति । मिथ्यास्वप्रथमकषायक्षयोपशमे वेदकसम्यक्त्वम् । द्वितीयकषायक्षयोपशमे देशविरतिचारित्रं तृतीयकषायक्षयोपशमे सर्वविरतिचारित्रमिति चारित्रादयो गुणाः।" पंच० खो• प्र• गा०. २६ पृ० १३०।
"तथा देशावरणोदये सत्यपि यो हन्तव्यविषयस्य देशप्रादुर्भावः स क्षायोपशमिको " भावः । आह - यद्येवं ततः सर्वघातिप्रदेशोदये मोहनीयस्य कथं झायोपशमिको भाव इति ? । उच्यते-ते हि प्रदेशा रसभावेनाप्रधाना यथासम्भवं देशघातिवेद्यमानरसान्तर्गताः स्वरूपमप्रकटयन्तो देशघातिरसप्राधान्यात् क्षायोपशमिकभावं जनयन्ति । एवं मनःपर्यायज्ञानचक्षुरवधिदर्शनानामपि भावना कार्या। मतिश्रुतज्ञानाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां सदेवोदयं प्रति देशघातिरसस्पर्धकानामेवोदयः ततो भावद्वयं भावितमेव ।” पश्च• खो• प्र. गा०३०पृ. १३३ ।
"सम्प्रति यथौदयिको भावः शुद्धो भवति, यथा च क्षयोपशमानुविद्धस्तथोपदर्शयतिअवधिज्ञानावरणप्रभृतीनां देशघातिनां कर्मणां सम्बन्धिषु सर्वघातिरसस्पर्द्धकेषु तथाविधविशुद्धाध्यवसायविशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि
चातिस्निग्धेष्वल्परसीकृतेषु, तेषां मध्ये कतिपयरसस्पर्द्धकगतस्योदयावलिकाप्रविष्टस्यांशस्य अक्षये, शेषस्य चोपशमे विपाकोदयविष्कम्भरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिका जायन्ते प्रादुर्भवन्ति । किमुक्तं भवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातीनि रसस्पर्द्धकानि विपाकोदयमागतानि वर्तन्ते तदा तद्विषय औदयिक एक एव भावः केवलो भवति, यदा तु देशघातिरसस्पर्धकानामुदयस्तदा तदुदयादौदयिको भावः कतिपयानां च देशघातिरसस्पर्धकानां सम्बन्धिन उदयाव"लिकाप्रविष्टस्यांशस्य क्षये, शेषस्य चानुदितस्योपशमे, क्षायोपशमिक इति भयोपशमानुविद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org