________________
ज्ञानबिन्दुप्रकरणस्य [पृ०१५ पं० १निर्मला । इह रसः केवलो न भवति ततो रसस्पर्धकसंघात एवंरूपो द्रष्टव्यः । पञ्च० म० प्र. गा० ४० पृ० १४० कर्मप्र० यशो० पृ० १२ । [पृ०१५ पं० १.]'उक्तशेषाणाम्' - पञ्च० प्र० गा० १८ पृ० १२५ ।
पृ०१५ पं० १. देशघातीनि' - "इतरो देशघाती देशघातित्वात् स्वविषयैकदेशघाति। स्वाद् भवति । स च विविधबहुच्छिद्रभृतः, तद्यथा-कश्चिद्वंशदलनिर्मापितकट इवातिस्थूरच्छिद्रशतसंकुलः, कश्चित्कम्बल इव मध्यमविवरशतसंकुलः, कोऽपि पुनस्तथाविधममृणवासोवदतीवसूक्ष्म विवरसंवृतः। तथा स्वरूपतोऽल्पस्नेहः स्तोकस्नेहाविभागसमुदायरूपः । अविमलश्च नैर्मल्यरहितश्च ।” पञ्च० म०प्र० गा• ४१ पृ० १४१ ।।
पृ०१५ पं० २ ] 'चतुःस्थानक' - "इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमा, • अशुभप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः । वक्ष्यते च-"घोसाडइनिम्बुवमो, असुभाण सुभाण खीरखण्डुवमों" । क्षीरादिरसश्च स्वाभाविक एकस्थानक उच्यते वयोस्तु कर्षयोरावर्तने कते सति योऽवशिष्यते एकः कर्षः स द्विस्थानक:, त्रयाणां कर्षाणामावर्त्तने कृते सति य एकः कर्षोऽवशिष्टः स त्रिस्थानकः, चतुणां कर्षाणामावर्त्तने कृते सत्युद्धरितो य एकः कर्षः स चतुःस्थानकः । एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलि• करककुम्भद्रोणादिप्रक्षेपान्मन्दमन्दतरादिभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि । तथा कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः, प्रत्येकमनन्तभेदभिन्नाश्च । कर्मणां चैकस्थानकरसाद् द्विस्थानकादयो रसा यथोत्तरमनन्तगुणाः ।” पञ्च० म० प्र० गा० २९ पृ० १३३ । [पृ० १५५० ४.] 'तत्र ज्ञानावरण' - "संप्रति यासा प्रकृतीनां यावन्ति बन्धमधिकृत्य रसस्पर्धकानि संभवन्ति तासां तावन्ति निर्दिदिक्षुराह-आवरणं ज्ञानावरणं दर्शनावरणं • च, तत् कथम्भूतमित्याह - असर्वमम् , सर्व ज्ञानं दर्शनं वा हन्तीति सर्वघ्नं सर्वघाति, तबेह प्रक्रमात् केवलज्ञानावरणं केवलदर्शनावरणं च, न विद्यते सर्वप्नं यत्र तदसर्वघ्नं केवलज्ञानावरणकेवलदर्शनावरणरहितमित्यर्थः । एतदुक्तं भवति- केवलज्ञानावरणवर्जानि शेषाणि मतिभुतावधिमनःपर्यायज्ञानावरणलक्षणानि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्जानि
शेषाणि चक्षुरचक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनापरणानि, तथा 'पुंसंजलनंतराय'त्ति७ पुरुषवेदः, चत्वारः संज्वलनाः क्रोधादयः, पञ्चविधमन्तरायं दानान्तरायावि, सर्पसंख्यया
सप्तदशप्रकृतयश्चतु:स्थानपरिणताः एकद्वित्रिचतु:स्थानकरसपरिणताः प्राप्यन्ते, बन्धमधिकत्यासामेकस्थानको द्विस्थानकत्रिस्थानकश्चतुःस्थानको बा रसः प्राप्यते इति भावः। तत्र यावनाथापि श्रेणिं प्रतिपद्यन्ते जन्तवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसम्भवं द्विस्थानकं त्रिस्थानकं चतु:स्थानकं वा रसं बध्नन्ति, श्रेणिं तु प्रतिपना अनिवृत्तिबाद• रसम्परायातायाः संख्येयेषु भागेषु गतेषु सत्सु, ततः प्रभृत्येतासां प्रकृतीनामशुभत्वावत्यन्त विशुद्धाध्यवसाययोगत एकस्थानकं रसं बनन्ति, तत एव बन्धमधिकृत्य चतु:स्थानपरिणताः प्राप्यन्ते । शेषास्तु सप्तदशव्यतिरिक्ताः शुभा अशुभा वा 'दुतिचउट्ठाणाउत्ति'- बन्धमधिकत्य विस्थानकरसालिस्थानकरसाश्चतु:स्थानकरसाश्च, न तु कदाचनाप्येकस्थानकरसाः । कथमेतदबसेयमिति चेत्, इह द्विधा प्रकृतयस्तद्यथा- शुभा अशुभाश्च । तत्राशुभप्रकृतीनामेकस्थानक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org