________________
ज्ञानविन्दुप्रकरणस्य
[ ५०५
सकलधातिक्षयो निमित्तं केवलज्ञानस्य । मनः पर्यायज्ञानस्य तु आमर्षैषध्यादिलभ्युपेतस्य प्रमादलेशेनापि अकलङ्कितस्य विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः 'तं संजयस्स सब्वमायरहितस्स विविहरिद्धिमतो' इति वचनप्रामाण्यात् । अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमनिबन्धनक्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं • तचामे वक्ष्यते । उक्तं च
10
1.3
५४
25
"नत्तेगसहावत्तं ओहेण विसेसओ पुण असिद्धं । एतत सहावत्तणओ कह हाणिवुड्डीओ ॥ जं अविचलियसहावे तत्ते एगंततस्सहावत्तं । न य तं होवलद्धा उक्करिसाव गरिसविसेसा ॥ तन्हा परिधूराओ निमित्तभेयाओ समयसिद्धाओ । aaचिसंगओ चिय आभिणिबोहाइओ भेओ ॥ घाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मणपवनाणस्स उ तहाविहो अप्पमाओ ति ॥ ओहिनाणस्स तहा अणिदिसुं पि जो खओवसमो । महसुयनाणाणं पुण लक्खणभेयादिओ भेओ ।।"
यदप्युक्तम् - 'ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्द् दूरापास्तप्रसरम् । न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः । एकेनाप्यवग्रहादिना बहुबहु विधवस्तुग्रहणोपलम्भात् ।
यदपि च प्रत्यपादि -- 'प्रतिपत्तिप्रकारभेदकृत' इत्यादि तदपि न मो बाधामाधातुमलम् । 20 यतस्ते प्रतिपत्तिप्रकाराः देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामन्ति । ततः कथमेकस्मिन् अनेकभेदभाव - प्रसङ्गः ? । उक्तं च -
" न य पडिवत्तिविसेसा एगंमि य णेगभेयभावे वि ।
जं ते तहा विसिट्टे न जाइए विलंघेइ ||"
यदयवादीद् - 'आवार्यापेक्षं हि आधारकम्' इत्यादि तदपि न नो मनोषाधायै । यतः परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः ततस्तदपेक्षमावारकमपि तथा भिद्यमानं न युष्मादृशदुर्जनवचनीयतामास्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं पर प्रश्नयति - बनु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्मान्मभूता उद्यानात्मभूताः । किचातः । उभयथापि दोषः । तथाहि - यच्चाश्मभूतास्ततः क्षीणा20 मरणेऽपि तद्भावप्रसङ्गः । तथा च असर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते । अथानात्मभूताः, नि ते पारमार्थिकाः, कथमावार्यापेक्षो वास्तवः आवारकभेद: ? । तदपि न मनोरमम् । सम्यग्वस्तुतत्त्वापरिज्ञानाद् । इह हि सकलघनपटल विनिर्मुक्तशारद दिनमणिरिव समन्ततः समस्त वस्तुस्तोमप्रकाश नै कस्वभावो जीवः । तस्य च तथाभूतः स्वभावः केवलज्ञानमिति
पदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेन आत्रियते तथापि तस्मानस्ततमो * भागो नित्योद्घाटित एव "अक्खरस्स अणंतो भागो निबुग्धाडिओ । जह पुण सो वि
Jain Education International
पं० ५
For Private & Personal Use Only
www.jainelibrary.org