________________
१२
झानविन्दुप्रकरणस्य [पृ० ५५० ५ उच्यते-इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावमाचापि समूलमलापगमसावद् यथा यथा देशतो मलविलया तथा तथा देशतोऽभिव्यक्तिरुपजायते । साप कचित्कदाचित् कथश्चित् भवतीत्यनेकप्रकारा, तथा आत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाचापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते । सा च कचित्कदाचित् कथञ्चिवित्यनेकप्रकारा । उक्तं च -
"मलविद्धमणेर्व्यक्तिर्यथानेकप्रकारतः।
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः॥" : सा पानेकप्रकारता मतिमुतादिभेदेनावसेया । ततो यथा मरकताविमणेरशेषमलापगम॥ संभवे समस्तास्पष्टदेशब्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि शानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्वअस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति । तथाचोक्तम्
"यथा जात्यस्य रत्नस्य निःशेषमलहानितः।
स्फुटकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥" ॥ - ततो मत्यादिनिरपेक्षं केवलज्ञानम् ।.....
ननु सकलमपि इदं ज्ञानं ज्ञप्त्येकखभावं ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष भाभिनिषोधकाविभेदः ।
शेयभेदकत इति चेत्-तथाहि-वार्तमानिक वस्तु आभिनियोधिकमानस्य आयम् । त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य; रूपिद्रव्याण्यवधिज्ञानस्स ॥ मनोद्रव्याणि मनःपर्यायज्ञानस्य; समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य । तदेतदसमीचीनम् । एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तः । तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः । यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकाविज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि वियन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात् , अविषयत्वात् । तथा च सति केव. लिनोऽप्यसर्वज्ञत्वप्रसङ्गा, आभिनिबोधिकाविज्ञानचतुष्टयविषयजातस तेनाऽग्रहणात् । न चैतविष्टमिति - अयोच्येत-प्रतिपत्तिप्रकारभेदतः आभिनिषोधिकाविभेदः । तथाहि - न यारशी प्रतिपत्तिराभिनिबोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्तु अन्याशी । एवमवध्याविज्ञानानामपि प्रतिपत्तव्यम् । ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः । तदप्ययुक्तम् । एवं सति एकस्मिमपि ज्ञानेऽनेकभेदप्रसक्तेः । तथाहि - तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं कानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते । तन्नैषोऽपि पक्षः श्रेयान् । .. स्यादेतत् - अस्त्यावारकं कर्म, तच्चानेकप्रकारम् । ततः तद्भेदात् तदावार्य ज्ञानमयनेकतां प्रतिपद्यते । ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् । ततो ज्ञानमपि पञ्चधा प्ररूप्यते । तदेतदतीव युक्त्यसङ्गतम् । यत आवार्यापेक्षमाधारकम् , अत आवार्य
भेदादेव तद्भेदः । आवार्य च ज्ञप्तिरूपापेक्षया सकलमपि एकरूपं, ततः कथमावारकस्स • पत्ररूपता ? । येन तद्भेदात् ज्ञानस्यापि पश्चविधो भेदः उद्गीर्येत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org