________________
શ્રી સુધર્માસ્વામી
[श्री ताछ चित्तं न नीतं वनिताविकारै--वित्तं न नीतं चतुरैश्च चौरैः । यद्देहगेहे द्वितयं निशीथे, जंबूकुमाराय नमोऽस्तु तस्मै ॥ २ ॥ मण १ परमोहि २ पुलाए ३, आहार ४ खवग ५ उवसमे ६ कप्पे । संजमतिग ( केवल ९ सि-ज्ज्ञणा य १० जंबुम्मि वुच्छिण्णा ॥ ३ ॥
३-तईओत्ति, श्रीजंबूस्वामिपट्टे तृतीयः श्रीप्रभवस्वामी । स च त्रिंशद (३०) वर्षाणि गृहस्थपर्याये, चतुश्चत्वारिंशत् (४४) वर्षाणि व्रतपर्याये, एकादश (११) वर्षाणि युगप्रधानपर्याये चेति सर्वायुः पंचाशीति (८५) वर्षाणि परिपाल्य, श्रीवीरात पंचसप्तति (७५) वर्षातिक्रमे स्वर्गभागिति ॥ छ ।।
४-सिजभवोत्ति, श्री प्रभवस्वामिप्रहितसाधुमुखात् “ अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम् ' इत्यादि वचसा यज्ञस्तंभादधः श्रीशांतिनाथबिंबदर्शनादवाप्तधर्मा प्रव्रज्य, क्रमेण मनकनाम्नः स्वसुतस्य निमित्तं दशवैकालिकं कृतवान् । यतः--कृतं विकालवेलायां, दशाध्ययनगर्भितम् ।
दशवैकालिकमिति--नाम्ना शास्त्रं बभूव तत् ॥१॥ अतः परं भविष्यति, प्राणिनो ह्यल्पमेधसः । कृतार्थास्ते मन वत्, भवंतु त्वत्प्रसादतः ॥२॥ श्रुतांभोजस्य किंजल्कं, दशवैकालिकं ह्यदः । आचम्याचम्य मोदन्ता-मनगारमधुव्रताः ॥ ३ ॥ इति संघोपरोधेन, श्रीशय्यंभवसूरिभिः ।
दशवैकालिको ग्रंथा, न संवत्रे महात्मभिः ॥ ४ ॥
स चाष्टाविंशति (२८) वर्षाणि गृहस्थपर्याये, एकादश (११) व्रते, त्रयोविंशति (२३) युग० चेति सर्वायुषष्ठि (६२)वर्षाणि परिपाल्य श्रीवीरादष्टनवति(९८)वर्षातिकमे स्वर्गभाक्।।छ॥
५-पंचमओत्ति, श्रीशय्यंभवस्वामिपट्टे पंचम श्रीयशोभद्रस्वामी । स च द्वाविंशति (२२) वर्षाणि गृहे, चतुर्दश (१४) व्रते, पञ्चाशत् (५०) वर्षाणि युग० सर्वायुः षडशीति (८६) वर्षाणि परिपाल्य श्रीवीरादष्टचत्वारिंशदधिके शते (१४८) ऽतिक्रांते स्वर्गभाक् ॥ छ ।
६-छट्ठा संभूयत्ति, श्रीयशोभद्रस्वामिपट्टे षष्ठौ पदैकदेशे पदसमुदायोपचारात् संभूतेति श्रीसंभूतिविजयः, भद्दत्ति श्रीभद्रबाहुस्वामीत्युभावपि षष्ठपदधरावित्यर्थः । तत्र श्रीसंभूतिविजयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org