________________
गुरु-वन्दना
यस्य ज्ञानमनन्तदर्शिसमयाम्भोराशिमन्थाचलो
यस्य शान्तिरनल्पकोपनजनक्रोधाग्निधाराधरः । यस्य ब्रह्मतपःसहस्रकिरणो भूमण्डलोद्योतको
विश्वाभ्यर्चितसंयमो विजयते श्रीधर्मसूरीश्वरः॥ वन्यन्तेऽप्रतिमप्रभावकबला विश्वोपकारव्रता
दुर्दान्तप्रतिवादिकुञ्जरघटासन्त्रासकण्ठीरवाः । वैराग्यामृतवर्षणप्रशमितप्रोद्दाममोहानलाः
सर्वत्रापि गुणादरव्यसनिनः श्रीधर्मसूरीश्वराः॥
-न्यायविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org