________________
મહર્ષિ હરિભદ્રાચાર્યજીની છેલી “શીખ” तच्छोतव्यमेतदादरेण, परिभावनीयं सूक्ष्मबुद्धया। शुष्केक्षुचर्वणप्रायमविज्ञातार्थमध्ययनं । रसतुल्यो सत्रार्थः, स खलु प्रीणयत्यन्तरात्मानं, संवेगादि सिद्धेः, अन्यथा त्वदर्शनात् ।
तदर्थ चैष प्रयास इति न प्रारब्धप्रतिकूलमासेवनीय, प्रकृतिसुन्दरं चिन्ता. मणिरत्नकल्पं संवेगकार्य चेतदिति महाकल्याणविरोधि न चिन्तनीयं । चिन्तामणिरत्नेऽपि सम्यगृहातगुण एव श्रद्धाधतिशयभावतोऽविधिविरहेण महाकल्याणसिद्धिरिति ॥ (म भाट अनु छेद सूत्र. ९५७).
य एनां भावयत्युच्चैमध्यस्थेनान्तरात्मना । सवन्दनां सुबीज वा नियमादधिगच्छति ।।
ધર્મદેશના હરિભદ્રજીએ ગૂંથેલો ઉતમ નમને
प्रदीप्तगृहोदरकल्पोऽयं भवो, निवास: शारीरादिदुःखानां । न युक्त इह विदुषः प्रमादः। यतः अतिदुर्लभेयं मानुष्यावस्था, प्रधानं परलोकसाधनं, परिणाम कटयो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि, पातभयातुरमविज्ञातपातमायुः ।
तदेवं व्यवस्थिते विध्यापनेऽस्य यतितव्यं । पतञ्च सिद्धान्तवासनामारी धर्ममेषो यदि परं विध्यापयति। अतः म्बीकार्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः। __ भावनीयं मुण्डमालालुकाशातं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, उपादेयं प्रणिधानं, पोषणीय साधुसेवया धर्मशरीरं, रक्षणीय प्रवचनमालिन्यं । एतच विधिप्रवृत्तः सम्पादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रात् ।
ज्ञातव्य आत्मभावः, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसम्पन्नयोगेषु,लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्या भयशरणाादाहरणेन
( अ भाटे मे अथ सूत्र १३२-१३१, ५. २१५)
TUPURI
L
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org