SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७८ સમાધિ મરણ - - (२) अन्तिम आराधना ज्ञानदर्शनचारित्र वीर्याराधनतत्परः । एक एवाऽन्तरात्मा मे व्युत्सृष्टमधुनाऽपरम् ॥१॥ रागद्वेषमहामोह कषायमलधूनकः । विशुद्धः सांप्रतं वर्ते स्नातकोऽहं समाहितः ॥२॥ क्षाम्यन्तु सर्वसत्त्वा मे क्षान्ति में सर्वजन्तुषु । निर्वैरः सांप्रतं शान्तः क्षेत्रज्ञो मम वर्तते ॥३॥ यदन्तर्यायिनः किचिद् बहिर्भूतं पुरा मया । गृहीतं स्वीयबुद्धया तव्युत्सृष्टमघुनाऽखिलम् ॥४॥ तीर्थे श्वरा महात्मानः सिद्धा निधू तकल्मषा । सद्धर्मः साधवश्चेति भवन्तु मम मङ्गलम् ॥५॥ एतावानेवोत्तमत्वेन गृणामि भुवनेऽप्यहम् । एतानेव प्रपद्येऽहं शरणं भवभीरुकः ॥६॥ निर्वृत्तसर्वकामोऽहं मनोजालनिरोधकः । बन्धुः समस्तभूतानां सूनुवत्सर्वयोषिताम् स्थितः सामायिके शुद्धे सर्वयोगनिरोधिनि । व्युत्सृष्टचेष्टं मां सिद्धाः पश्यन्तु परमेष्ठिनः ॥८॥ यच्च दुश्चरितं किंचिदिहान्यत्र च मे भवेत् । संजातं जातसंवेगस्तन्निन्दामि पुनः पुनः ॥९॥ सर्वोपाधिविशुद्धोऽहं ममेयमधुना मतिः । साक्षात्केवलिन स्तत्त्वं भगवन्तो विजानते ॥१०॥ भवप्रपञ्चनविरतो मोक्षैकगतचेतसा । समर्पितो मयाऽऽत्मैष जिनानां जन्मनाशिनाम् ॥११॥ तत एव महात्मानः सद्भावार्पितचेतसः । स्वशक्त्याऽशेषकर्माशच्छेदं कुर्वन्तु मेऽधुना ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005134
Book TitleSamadhi Maran
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1990
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy