SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ઐતિહાસિક સજઝાયમાલા. पीतास्वल्पकलापिकः कृषिभरं तोयैस्तडित्त्वानिव । विश्वं विश्वमतोषयत् स्ववचनैर्यः पुण्यनैपुण्यधीः सिद्धयै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ २ ॥ आलोकं विलसत्समस्तकमलामोदं गभस्तेरिव स्तोमं तोयमुचामिवास्ति भुवनानन्दं पदं श्रेयसाम् । यं लोको बहु मन्यते स्म सकलः सर्वत्र सौवाप्तदक् सिध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥३॥ स्वाज्ञावर्तिषु मण्डलेषु निखिलेष्वानन्दतोऽचीकरत् प्रीतो यद्वचनैः कृपावनधनैः शाहिहंमाऊसुतः । जीवानामभयपदानपटहोद्धोषानघध्वंसिनः सिद्धयै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥४॥ श्रीमान् शाहिअकब्बरक्षितिपतियद्वाभिरानन्दितः कृत्वा तत्करमुक्तिमुक्तिमनघां बिभ्रद ददौ दक्षधीः । तीर्थ जैनजनाय तीर्थतिल के शत्रुञ्जयोध सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ।।५।। स्वं गाढाग्रहिणं कदाग्रहमथाङ्करं विहाय स्वयं लुम्पाका ऋषिमेघजीप्रभृतयः श्रेयोऽर्थिनोऽल्पेतराः। भृङ्गत्वं बिभरांबभूवुरनिशं यत्पादपाथोरुहे सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्थानन्दिके पादुके ॥६॥ चैत्यायुद्धरणैत्रतानुसरणैः सन्मानदानोत्सवै रेकच्छत्रमिवाभवद् भगवतां सद्वासनं शासनम् । यस्मिन् श्रीतपगच्छवल्लिजलदेऽलंकुति मातलं सिद्य तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005028
Book TitleAetihasik Sazzaymala
Original Sutra AuthorN/A
AuthorVidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1997
Total Pages140
LanguageGujarati
ClassificationBook_Gujarati, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy