________________
॥१॥
॥२॥
॥ सिद्धचक्रस्तोत्र ॥ ऊर्ध्वाधोरयुतं सबिन्दुसकलं ब्रह्मस्वरावेष्टितं, वर्गापूरितमष्टपत्रममलं सत्सन्धितत्त्वार्पितम् ॥ अन्तः पत्रतटेष्वनाहतपदं ह्रींकारसंवेष्टितं, देवं ध्यायति यः पुमान् स भवति वैरीभकण्ठीरवः यद्वर्गाष्टकपूरितं वरदलं सानाहतं नीरजं यहींकारकलापबिन्दुकलितं मध्ये त्रिरेखाञ्चितम् ॥ यत्सर्वार्थकरं परं गुणवतां कालत्रये वर्तिनां तत्क्लेशौघविनाशनं भवतु नः श्रीसिद्धचक्रेश्वरम् शब्दब्रह्मैकलीनं प्रबलबलयुतं सर्वतत्त्वप्रभावं, सानन्दं सर्वभद्रं गणधरवलयं दुःखपाशप्रणाशनम् ॥ यन्नैमित्तं वरिष्ठविपदि हदि धृतं सज्जनानां च नित्यं तद् दत्तं यस्य बाहौ रिपुकुलमथनं सिद्धचक्रं नमामि यच्छुद्धं व्योमबीजं ह्यध-उपरि रा( या )न्त-सिद्धाक्षरेण, यत्सन्धौ तत्त्वयुक्तं स्वपरमपदैर्वैष्टितं मध्यबीजम् । यत्सीमन्तं निरतं विगतकलिमलं मायया वेष्टिताङ्गं जीयात् तत् सिद्धचक्रं विमलवरगुणं देवनागेन्द्रवन्द्यम् यद् वश्यादिककारकं बहुविधं कामार्थिनां कामदम् यल्लक्षाधिकजापसिद्धविमलं सत्संपदां दायकम् ।
॥३॥
॥४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org