________________
त्वं मे माता पिता नेता, देवो धर्मो गुरुः परः । प्राणोः स्वर्गोऽपवर्गश्च, सत्त्वं तत्त्वं गतिर्मतिः ॥२॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च ॥३॥ यत्किञ्चित् कुर्महे देव ! सदा सुकृतदुष्कृतम् । तन्मे निजपदस्थस्य हुं, क्षः क्षपय त्वं जिन ! ॥४॥ गुह्यातिगुह्यगोप्ता त्वं, गृहाणास्मत्कृतं जपम् । सिद्धिः श्रयति मां येन, त्वत्प्रसादात्त्वयि स्थितम् ॥५॥ इति श्री वर्धमानजिननाममंत्रस्तोत्रं प्रतिष्ठायां शान्तिकविधौ पठितं महासुखाय स्यात् ॥ इतीमं पूर्वोक्तमिन्द्रस्तवं एकादशमंत्रराजोपनिषद्गर्भ अष्टमहासिद्धिप्रदं सर्वपापनिवारणं, सर्वपुण्यकारणं सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेकसम्यग्दृष्टिभद्रकदेवताशतसहस्त्रशुश्रूषितं, भवांतरकृतासंख्यपुण्यप्राप्यं सम्यग् जपतां, पठतां, श्रुण्वतां, गुणयतां, समनुप्रेक्षमाणानां भव्य जीवानां चराचरेऽपि विश्वे सद्वस्तु तन्नास्ति यत् करतल प्रणयि न भवतीति । किञ्च.... २. इतीमं पूर्वोक्तमिन्द्रस्तवमेकादश मन्त्रराजोपनिषद्गर्भ... इत्यादि
यावत् सम्यग्समनुप्रेक्षमाणानां भव्यजीवानां भवनपतिव्यंतरज्योतिष्कवैमानिकवासिनो देवा सदा प्रसीदन्ति । व्याधयो विलीयन्ते । ३. इतीमं० भव्यजीवानां पृथिव्यप्तेजोवायुगगनानि भवन्त्यनुकूलानि ।
.२५ .
Jain Education International For Private & Personal Use Only
www.jainelibrary.org