________________
• द्वेषयोनिप्रयत्नोपवर्णनम् •
२१३५ मुक्तेः, द्वेषयोनिप्रवृत्तितः साक्षाद्दःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाऽविरोधात् ।।२०।। = अपुरुषार्थत्वं स्यात्, दुःखध्वंसस्य काम्यत्वेऽपि कर्मध्वंसस्य काम्यत्वनियमाऽभावात्, अन्यथा घटादेरपि पुरुषार्थत्वं स्यात्, प्रयत्नसाध्यत्वस्योभयत्राऽविशेषादिति शङ्कनीयम्, दुःखद्वेषे विवेकिनां दुःखोत्पादककर्मगोचरद्वेषस्याऽवश्यम्भावात् । ततो दुःखध्वंसस्येव दुःखकारणीभूतकर्मध्वंसस्याऽपि काम्यताऽनाविलैव, द्वेष्यध्वंसस्य स्वसंविदितकामनाविषयत्वनियमात् । द्वेषमूलप्रवृत्तावित्थम्भावदर्शनात् द्वेषयोनिप्रवृत्तितः = दुःखद्वेषहेतुकप्रवृत्तितः साक्षाद्दुःखहेतुनाशोपायेच्छाविषयत्वेन = साक्षाद्दुःखजनककर्मप्रतियोगिकस्य ध्वंसस्य उपायानां ज्ञानाचारादीनां इच्छागोचरत्वेन कृत्स्नकर्मक्षयरूपाया मुक्तेः परमपुरुषार्थत्वाऽविरोधात् । लोकेऽहि कण्टकादिनाशस्य धार्मिके च प्रायश्चित्तादौ पापनाशस्याऽनन्यगतिकतया दुःखसाधनध्वंसत्वेन पुरुषार्थत्वं दृश्यत एव । न च ‘अहि-कण्टकादि पापं वा नाश्यताम् येन तज्जन्यं दुःखं न भवेदिति दुःखानुत्पादमुद्दिश्य प्रवृत्तेः दुःखानुत्पाद एव प्रयोजनं न तु दुःखसाधनाभावः, सुख-दुःखाभावेतरत्वादिति वाच्यम्, दुःखानुत्पादस्य प्रागभावत्वेनाऽनादितया असाध्यत्वात् ।
यत्तु तत्त्वचिन्तामणिकृता → 'दुःखं मे मा भूदि'त्युद्दिश्य प्रायश्चित्तादौ प्रवृत्तेः दुःखाऽनुत्पादस्यैव प्रयोजनत्वात् । न च प्रागभावस्याऽसाध्यत्वम्, दुःखसाधनविघटनद्वारा तस्यापि कृतिसाध्यत्वात् । दुःखसाधनसमवधानदशायां कृतौ सत्यां दुःखसाधननाशे सति अग्रिमसमये प्रागभावस्वरूपमस्ति, तेन विना नास्तीति अन्वय-व्यतिरेकयोः तत्र सत्त्वात् + (त. चिं. अनुमानखण्ड भाग-२, मुक्तिवाद पृ.१६९) इत्युक्तं, तन्न यतः प्रायश्चित्तनाश्यपापजन्यदुःखस्य प्रागभावो यद्यस्ति तदा दुःखमावश्यकम्, तस्य प्रतियोगिजनकत्वनियमात्; नास्ति चेत् ? तर्हि तदभावादेव दुःखानुत्पाद इत्युभयथाऽपि प्रायश्चित्तवैफल्यापत्तिः । न च मुक्तौ दुःखप्रागभावसत्त्वेऽपि सहकारिविरहेण दुःखानुत्पादोपपत्तेरिति वाच्यम्, तस्योत्तरावधिविधुरत्वेनाऽत्यन्ताभावत्वप्रसङ्गादित्यधिकमस्मत्कृतभानुमत्यां (न्यायालोकटीका-प्रकाश-१ पृ.१४) विज्ञेयम् ।
इत्थञ्च प्रायश्चित्तादिस्थलानुरोधेन कर्मनाशकस्येच्छागोचरत्वे कर्मनाशस्य परमपुरुषार्थत्वं सङ्गच्छत एवेति तात्पर्यम् । एतेन → चिज्जडग्रन्थिसम्बन्धो योऽभूज्जीवदशोद्भवे । छिन्नो मुक्तदशायां स भवेज्जीवः शिवो ह्यतः।। - (शं.गी.६/७९) इति शम्भुगीतावचनं, → अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः 6 (शि.गी.१३/३२) इति शिवगीतावचनमपि व्याख्यातम्, व्यवहारनयाभिप्रेतद्रव्यकर्मग्रन्थिनाशस्य अज्ञानવ્યતિરેક જ્ઞાનાચારાદિના અન્વય-વ્યતિરેકને અનુસરે છે.
શંકા - દુઃખધ્વસ જ બધાને ગમે છે. કર્મધ્વસ કામ નથી. માટે મુક્તિને કર્મક્ષયસ્વરૂપ માનવામાં મોક્ષ સ્વતઃ કામ્ય ન હોવાથી અપુરુષાર્થ બની જશે.
હ મૈનિર્જરામાં પરમપુરુષાર્થત્વની સંગતિ હ સમાધાન - કર્મક્ષયને મુક્તિસ્વરૂપ માનવામાં મોક્ષ અપુરુષાર્થ થઈ જવાની સમસ્યાને અવકાશ રહેતો નથી. કારણ કે પ્રસ્તુતમાં ઠેષમૂલક પ્રવૃત્તિ થાય છે. સાક્ષાદુઃખજનક એવા કર્મોનો નાશ કરવાના ઉપાયભૂત જ્ઞાનાચાર વગેરેની કામનાનો વિષય બનવાથી કર્મક્ષયરૂપ મુક્તિ પરમપુરુષાર્થ બને તેમાં 5 विरो५ भावतो नथी. (3१/२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org