________________
२१३४
• अनावृतज्ञानाद्याविर्भावविमर्शः • द्वात्रिंशिका-३१/२० क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् । न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः ।।२०।।
क्षय इति । व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वय-व्यतिरेकाऽनुविधानेन तत्प्रवृत्तेः, ज्ञानादीनां कर्मक्षये तदनुविधानात् । न चैवं कर्मक्षयस्य मुक्तित्वाऽभ्युपगमे अपुमर्थत्वं ऽनापत्तेः । अपवरकाऽवस्थितपदार्थसार्थप्रकाशनपरिणतिं तिरस्कृत्य सावृतप्रकाशनपरिणतिजनकत्वमेव शरावादेः प्रदीपाऽऽवारकत्वमुच्यते । अतो यथा शरावाद्यभावे प्रदीपादेरनावृतप्रकाशनस्वभाव आविर्भवति तथैव शरीराद्यभावे आत्मनोऽनावृतसुखसंवेदनस्वभावोऽभिव्यज्यते, देहादेः सावच्छिन्नसुखसंवेदनाद्यपेक्षाकारणत्वादिति । तदुक्तं सम्मतितर्कटीकायां → 'सकलपदार्थप्रकाशकत्वं ज्ञानस्य स्वभावः । स च सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपाऽऽवरणेनाऽऽच्छाद्यते, अपवरकाऽवस्थितप्रकाश्यपदार्थप्रकाशकस्वभावप्रदीप इव तदावारकशरावादिना । तदपगमे तु प्रदीपस्येव स्वप्रकाश्यप्रकाशकत्वं ज्ञानस्याऽयत्नसिद्धमिति कथमावरणभूतसेन्द्रियदेहाद्यभावे तदवस्थायां ज्ञानस्याऽप्यभावः प्रेर्यंत ? अन्यथा प्रदीपाऽऽवारकशरावाद्यभावे प्रदीपस्याप्यभावः प्रेरणीयः स्यात् । न च शरावादेरावारकस्य प्रदीपं प्रत्यजनकत्वमाशङ्कनीयम्, तथाभूतप्रदीपपरिणतिजनकत्वाच्छरावादेः, अन्यथा तं प्रत्यावारकत्वमेव तस्य न स्यात् + (सं.त.का.१, गा.१, पृ.६३५) इति ।।३१/१९।।। ___व्यवहारनयेन मुक्तिस्वरूपमावेदयति- 'क्षय' इति । व्यवहारेण = → सङ्ग्रहेण गृहीतानामर्थानां विधिपूर्वकः । व्यवहारो भवेद् यस्माद् व्यवहारनयस्तु सः ।। - (त.सा.४६) इति तत्त्वार्थसारदर्शितेन व्यवहारनयेन तु प्रयत्नसाध्यः = ज्ञानादिगोचरप्रयत्नजन्यः कर्मणां ज्ञानावरणादीनामन्तरायपर्यन्तानां क्षयः = अत्यन्तमुच्छेदो = मुक्तिः इति इष्यते, अन्वय-व्यतिरेकाऽनुविधानेन = 'तत्सत्त्वे तत्सत्त्वं, तदसत्त्वे चाऽसत्त्वमिति नियमानुसारेण तत्प्रवृत्तेः = व्यवहारनयप्रवृत्तेः, कर्मक्षये जननीये ज्ञानादीनां = ज्ञानदर्शन-चारित्र-तपो-वीर्याऽऽचाराणां तदनुविधानात् = अन्वय-व्यतिरेकाऽनुसरणात् । ज्ञानाचारादिसत्त्वे कर्मक्षयः, तदसत्त्वे च तदक्षयः इति अन्वय-व्यतिरेकबलेन ज्ञानाचारादिजन्यः कर्मक्षयो मुक्तिरिति व्यवहारनयाऽभिप्रायः । न च एवं प्रयत्नसाध्यतया कर्मक्षयस्य मुक्तित्वाऽभ्युपगमे तु मुक्तेः अपुमर्थत्वं
છ વ્યવહારનયમાન્ય મુક્તિનું નિરૂપણ છે. ગાથાર્થ :- વ્યવહાર નયથી મુક્તિ એટલે પ્રયત્નસાધ્ય કર્મક્ષય. આવું માનવામાં અપુરુષાર્થત્વ દોષ નહિ આવે. કારણ કે પ્રસ્તુતમાં ૮ષમૂલક પ્રવૃત્તિ થાય છે. (૩૧/૨૦)
ટીકાર્ય - વ્યવહાર નયના અભિપ્રાયથી પ્રયત્નસાધ્ય એવો કર્મક્ષય એ મોક્ષ તરીકે માન્ય છે. કારણ કે અન્વય-વ્યતિરેકને અનુસરવાથી વ્યવહારનય પ્રવર્તે છે. “અમુક ચીજ હાજર હોય તો કાર્ય ઉત્પન્ન થાય અને તે જ ચીજ ન હોય તો કાર્ય ઉત્પન્ન ન જ થાય' આવા અન્વય-વ્યતિરેક જોવા મળે તો તે ચીજ તે કાર્ય પ્રત્યે કારણ છે- એવું વ્યવહારનય કહે છે. આમ કારણની હાજરી-ગેરહાજરીને અનુસાર કાર્યની હાજરી-ગેરહાજરીનો નિયમ વ્યવહારનયનું પ્રસ્તુતમાં ચાલકબળ છે. આ નિયમને કેન્દ્રસ્થાને ગોઠવીને વ્યવહારનય કહે છે કે કર્મક્ષય પ્રત્યે જ્ઞાનાચારાદિ કારણ છે. કારણ કે કર્મક્ષયના અન્વય१. हस्तादर्श 'चैवपुम...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org