________________
२१२०
• नानातन्त्रेषु स्थिरात्मसिद्धिः • द्वात्रिंशिका-३१/१४ देहाहिओ जीवो ।। - (वि.आ.भा.१५६२) इति । तदुक्तं न्यायसूत्रे अपि → इच्छा-द्वेष प्रयत्नसुख-दुःख-ज्ञानानि आत्मनो लिङ्गम् + (न्या.सू.१/१/१०) इति । एतेन → नात्माऽस्ति स्कन्धमात्रं तु क्लेश-कर्माऽभिसंस्कृतम् । अन्तरा भावसन्तत्या कुक्षिमेति प्रदीपवत् ।। - (अभि.ध.३/१८) इति अभिधर्मकोशवचनं निराकृतम्, स्कन्धानां जडत्वे रागादिक्लेश-पुण्यादिकर्मसम्बन्धाऽयोगेन शरीरारऽऽम्भस्यैवाऽसम्भवात् । न च पृथिव्यादिधातुलक्षणभूतादिभेदभिन्नरूपस्कन्धाद्यतिरिक्तात्मस्वीकारेऽपि कर्मान्तरेण शरीराऽसम्भवः शरीरमन्तरेण च कर्माऽसम्भव इति वाच्यम्, यत आत्मनोऽनादित्वे तु बीजाङ्कुरन्यायेनोपपत्तेर्न कश्चिद् दोष इति व्यक्तं (ब्र.सू.भा.२/१/३६) ब्रह्मसूत्रशाङ्करभाष्ये ।
एतेन → अङ्गनाऽऽलिङ्गनाज्जन्यसुखमेव पुमर्थता । कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ।। यावज्जीवं सुखं जीवेद् नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?।। 6 (बृ. म.) इति बृहस्पतिवचनमपि निरस्तम्, बहुतरबलवदनिष्टाऽनुबन्धित्वात्, कालात्ययाऽपदिष्टत्वाच्च। → शरीरादिव्यतिरिक्तः पुमान् + (सां.सू.१।१३९) इति साङ्ख्यसूत्रमप्यत्र विभावनीयम् ।
वस्तुतस्तु देहादावात्मबुद्धिं दधतां लौकायतिकानां मोक्षपुरुषार्थोच्छेद एव । तदुक्तं ब्रह्मसूत्रशाङ्करभाष्ये → यदि चाऽज्ञस्य सतो मुमुक्षोरचेतनमात्मानमात्मेत्युपदिशेत् प्रमाणभूतं शास्त्रं स श्रद्धधानतयाऽन्धगोलापॅलन्यायेन तदाऽऽत्मदृष्टिं न परित्यजेत् तद्व्यतिरिक्तञ्चाऽऽत्मानं न प्रतिपद्येत तथा सति पुरुषार्थाद् विहन्येताऽनर्थञ्च ऋच्छेत् + (ब्र.सू.भा.१/१/७) इति ।
आत्मनो देहादिव्यतिरिक्तत्वाऽविनश्वरत्वसिद्धये → शरीरदाहे पातकाऽभावात् (न्या.सू.३।१।४), सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् (न्या.सू.३।१७), पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्ष-भय-शोकसम्प्रतिपत्तेः (न्या.सू.३।१ ।१९), प्रेत्याऽऽहाराऽभ्यासकृतात् स्तन्याभिलाषात् (न्या.सू.३।१।१२) इत्यादीनि न्यायसूत्राणि तदीयभाष्य-वार्तिक-वृत्त्यादीनि च विभावनीयानि विबुधैः । शरीरेन्द्रियाद्यतिरिक्तत्वमात्मनः पञ्चदश्यां (पं.द.३।३), अज्ञानबोधिन्यां (अ.बो.४६/६१), आत्मज्ञानोपदेशविधौ (आ.ज्ञानो.८११), सर्ववेदान्तसिद्धान्तसारसङ्ग्रहादौ (स.वे.सि. ५३७१५४७) सम्मतितर्क-स्याद्वादरत्नाकर-धर्मसङ्ग्रहणिविशेषावश्यकभाष्यादिजैनग्रन्थे च विस्तरतो दर्शितम् ।
दशवकालिकनियुक्तौ भद्रबाहुस्वामिभिः अपि → कारणविभाग-कारणविणासबंधस्स पच्चयाभावा । विरुद्धस्स य अत्थस्साऽपाउब्भावाऽविणासा य ।। निरामयाऽऽमयभावा बालकयाऽणुसरणादुवत्थाणा । सुत्ताईहिं अगहणा जाईसरणा थणभिलासा ।। सव्वन्नुवदिद्वत्ता सकम्मफलभोयणा अमुत्तत्ता । जीवस्स सिद्ध मेवं निच्चत्तममुत्तमन्नत्तं ।।
- (द.वै.नि.२२५-६-७) इत्येवं जीवस्याऽविनाशित्वादिकमुपदर्शितं द्रव्यार्थिकनयाऽभिप्रायेण ।
एतेन → णिच्चो अविणासी सासओ जीवो -(द.वै.नि.भा.४२) इति दशवैकालिकनियुक्तिभाष्यकृद्वचनमपि व्याख्यातम् । द्रव्यास्तिकमतमुपजीव्यैव उत्तराध्ययनसूत्रे अपि → नत्थि जीवस्स नासोत्ति 6 (उत्त.२/२९) इत्युक्तम् । यथोक्तं श्रीहरिभद्रसूरिभिरपि धर्मसङ्ग्रहण्याम् →
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org