________________
• वीतरागजन्माऽदर्शनविवरणम् •
२११९ न्तरपूर्वकत्वसिद्धौ तत्पूर्वभवीयाऽन्तिमरागसिद्धिः । एवं तत्तज्जन्मप्रथमाभिलाषं पक्षीकृत्य तत्तत्पूर्विलभवसिद्ध्या आत्मनो नित्यत्वसिद्धिः । नित्यस्य सत आत्मन नाशाऽयोगात् । तत्तच्छरीरविशिष्टत्वेनाऽऽत्मनो नाशेऽपि सर्वथा तन्नाशाऽयोगात् । तदुक्तं 'वीतरागजन्माऽदर्शनात्' (न्या.सू.३/१/२४) इति न्यायसूत्रस्य भाष्ये वात्स्यायनेन → ‘सरागो जायते' इत्यर्थादापद्यते । अयं जायमानो रागाऽनुबद्धो जायते, रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः । पूर्वाऽनुभवश्च विषयाणामन्यस्मिन् जन्मनि शरीरमन्तरेण नोपपद्यते । सोऽयमात्मा पूर्वशरीराऽनुभूतान् विषयान् अनुस्मरन् तेषु तेषु रज्यते। तथा चाऽयं द्वयोर्जन्मनोः प्रतिसन्धिः । एवं पूर्वशरीरस्य पूर्वतरेण । पूर्वतरस्य पूर्वतमेनेत्यादिनाऽनादिश्चेतनस्य शरीरयोगः अनादिश्च रागाऽनुबन्धः इति सिद्धं नित्यत्वमिति — (न्या.सू.भा.३/१/२४) ।
तदुक्तं न्यायवार्तिकेऽपि 'नित्य आत्मा वीतरागजन्माऽदर्शनात् । न हि कश्चिज्जातमात्रो वीतरागो जायते, वीतरागाणां जन्माऽदर्शनात्, सरागो जायत इति गम्यते । जन्म व्याख्यातम् । ततः किं ? रागस्य पूर्वानुभूतविषयाऽनुचिन्तनं योनिः । न च विषयाऽवगमाऽसमर्थेषु इन्द्रियेषु रागः सम्भवति । न च स्मृतिमन्तरेण विषयाऽनुचिन्तनं युक्तम् । पूर्वाऽनुभूतविषयप्रार्थनासङ्कल्पः अदृष्टादिति चेत् ? अथ मन्यसे न पूर्वशरीरयोगो रागाद् गम्यते अपि त्वदृष्टाद्राग इति, न, अभिप्रायाऽपरिज्ञानात्, नैवमभिप्रायः कारणनियमेन रागोऽपि तु पूर्वसम्बन्धप्रतिपादनं सूत्रार्थः न चादृष्टाद्राग इति ब्रुवता तत्प्रतिषिध्यत इति किञ्चिदुक्तं तन्मयत्वाद्राग इति विषयाऽभ्यासः खल्वयं भावनाहेतुस्तन्मयत्वमुच्यते जातिविशेषाच्च राग इति । कर्म खल्विदं जातिविशेषस्य निर्वर्तकं तादर्थ्यताच्छब्धं लभ्यते वीरणादिवत्' (न्या.वा.पृ. ३७२) ।
__वाचस्पतिमिश्रेण न्यायवार्तिकतात्पर्यटीकायां 'पूर्वानुभूतविषयाऽनुचिन्तनमिति एकविषयः स्मृतिप्रवाहः विजातीयप्रयत्नाऽसम्भिन्नः चिन्तनम् । तच्चाऽनुभवश्च पश्चाद् भवतीति अनुचिन्तनम् । न च तत्स्मृतिमन्तरेण भवति । न हि तत्र प्रवाहः प्रवाहिणं विनाऽस्ति तदेवानुचिन्तनं पूर्वानुभूतविषयप्रार्थनार्थः सङ्कल्पः प्रार्थनासङ्कल्पः स च पूर्वानुभूतविषय इत्यर्थः' (न्या.ता.पृ.५१७) इति व्याख्यातम् । सधैपतस्त्वयमर्थो न्यायखण्डखाद्ये → अनादिश्चासौ, वीतरागजन्माऽदर्शनात्', (न्यायसूत्र ३ ।१।२४) सरागजन्मदर्शनादिति सूत्रार्थः । पूर्वजन्मन्यपि प्रथमप्रवृत्त्यनुरोधेन तत्पूर्वस्य, एवं तत्तत्पूर्वस्य जन्मनः सिद्धिरित्यर्थः । अनन्तश्च, सतोऽनादित्वात् + (न्या.खं.खा.गा.६१ पृष्ठ-६१९) इत्येवमावेदितः ।
तदुक्तं धर्मसङ्ग्रहण्यां अपि → जो बालथणभिलासो पढमो अहिलासपुव्वगो सोऽवि। अहिलासत्ता जूणो जह विलयाहारअहिलासो ।। - (धर्म.सं.१५४) इति । पूर्वोक्ता(भा.४ पृ.९४४) → अत्थि मे आया - (आ.१/१/१/३) इति आचारागसूत्रोक्तिरप्यत्रोहनीया । तत्त्वचिन्तामणिकृतस्तु → नाऽपि दुःखहेतुत्वेनाऽऽत्मनो हानमेव मुक्तिः, सुख-दुःखाऽभावेतरत्वेनाऽपुरुषार्थत्वात् ज्ञानरूपात्महानस्याऽयत्नसिद्धेः अतिरिक्तहानस्याऽशक्यत्वात् + (त.चि.अनु.खण्ड-२/मु.वा.पृ.१८३) इत्याहुः ।
वस्तुतो विसदृशत्वाद् देहादिधर्मत्वं ज्ञानादेर्न सम्भवतीति देहादिव्यतिरिक्तात्मसिद्धिरनाविलैव । तदुक्तं विशेषावश्यकभाष्ये → नाणादओ न देहस्स मुत्तिमत्ताइओ घडस्सेव । तम्हा नाणाइगुणा जस्स स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org