SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ • स्वातन्त्र्यवैविध्यम • २११३ स्वातन्त्र्यमिति । स्वातन्त्र्यं मक्तिरित्यन्ये वदन्ति । तत् = स्वातन्त्र्यं यदि प्रभुता तदा मदः, स च क्षयी । अथ चेत् कर्मनिवृत्तिः तदा अस्माकमेव स सिद्धान्तः ।।११।। ऽऽत्मनः पारतन्त्र्यं बन्धः शास्त्रोक्तरीत्या स्वातन्त्र्यं च मुक्तिः इति अन्ये मुक्तिवादिनो वदन्ति । तेषां यदि स्वातन्त्र्यं = प्रभुता = ऐश्वर्यं तदा मदः = अभिमानः । 'अहं यथेच्छं दिव्यशरीराणि विधाय कमनीयाऽप्सरोभिः साकं स्वच्छन्दतया सुचिरकालं स्वर्गीयभोगान् भुजे' इत्यादिलक्षणा प्रभुता ऐश्वर्यात्मिका हि मदाऽपराऽभिधानैव स्यात् । स च ऐश्वर्यस्वरूपो मदः क्षयी = ध्वंसप्रतियोगी एव, कर्माऽधीनत्वात् । एवमपवर्गस्य विनश्वरत्वे कः क्लिष्टतमकष्टशत-सहस्रसाध्ये तस्मिन् प्रवर्तेत ? इत्थञ्चाऽपवर्गस्य स्वतः काम्यत्वप्रच्यवे पुरुषार्थत्वमुच्छिद्येत । तदुक्तं छान्दोग्योपनिषदि → तद् यथेह कर्मजितो लोकः क्षीयते, एवमेवाऽमुत्र पुण्यजितो लोकः क्षीयते - (छां.उप.८।१।६) इति । किञ्च, अभिमानाऽधीनतया संसारविलसितमेव तद् ऐश्वर्यम् । इत्थञ्चाऽत्र वधूमाषमापनन्यायो लब्धावकाशः । यथा काचित् मुग्धा नववधूः माषमापनव्यग्रा स्वगुह्यं न संवृणोति तथेदमपि मतं मुक्तात्मनि अपुरुषार्थत्वं न संवृणोतीति । तदुक्तं स्याद्वादकल्पलतायां 'यदि चैश्वर्यमेव तत्, तदाऽभिमानाऽधीनतया तस्य संसारविलसितत्वात्' (स्या.क.९/४-पृ.११) इति । एतेन → स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः - (ई.प्र.वि.१/५/१३) ईश्वरप्रत्यभिज्ञाविमर्शिनीवचनं निरस्तम् । इत्थञ्चोपास्यत्वेन प्रसिद्धानां ब्रह्मादीनामपि बाह्यविभूतियोगेऽपि योगनिद्रादौ योगाभ्यासश्रवणान्न कृतकृत्यत्वमिति द्योतितम् । एतेन → न भूतियोगेऽपि कृतकृत्यता, उपास्यसिद्धिवद् + (सां.सू.४/ ३२) इति साङ्ख्यसूत्रमपि व्याख्यातम् । तदुक्तं किरणावल्यां उदयनेनापि → ऐश्वर्यं चेत् ? कार्यतया तदपि साधनपरतन्त्रं क्षयि चेति दुःखाकरत्वाद् हेयमेव - (किर.पृ.२६) इति । एतेन → एतदेव स्वातन्त्र्यं यदतिदुर्घटकारित्वम् - (ई.प्र. ) इति ईश्वरप्रत्यभिज्ञानकारिकाऽपि निराकृता, तदुक्तं मथुरानाथेनाऽपि किरणावलीरहस्ये ‘ऐश्वर्यस्य मुक्तित्वे तस्य स्वतः पुरुषार्थत्वाऽनुपपत्तिः' (कि.रह. पृ.२७) इति । एतेन ‘कर्तृत्वं नाम यत् तस्य स्वातन्त्र्यं परिबृंहितम्' (पार.३) इति पारमात्मिकोपनिषद्वचनमपि निरस्तम्, कर्माऽतिक्रमेण तदसम्भवाच्चेति दिक् ।। अथ स्वातन्त्र्यं = कर्मनिवृत्तिः चेत् ? तदा अस्माकं अनेकान्तवादिनां एव स सिद्धान्तः ટીકર્થ - અન્ય વિદ્વાનો એમ કહે છે કે “સ્વતંત્રતા = મોક્ષ.” પ્રસ્તુતમાં સ્વતંત્રતા જો પ્રભુતાસ્વરૂપ હોય એટલે કે મન ફાવે તે રીતે દુનિયાનું સર્જન કરવું, સ્વેચ્છા મુજબ શરીરો બનાવવા, સ્વચ્છંદપણે ભોગસુખો ભોગવવા ઈત્યાદિ સ્વરૂપ પ્રભુતાને મુક્તિસ્વરૂપે માનવામાં આવે તો તે તો એક જાતનો મદ જ થઈ ગયો. ‘સ્વતંત્રતા = મુક્તિ આવું કહેવા દ્વારા મદસ્વરૂપ પ્રભુતાને મોક્ષ તરીકે ઠરાવી ન શકાય. કારણ કે તે મદ તો વિનાશી છે. સ્વતંત્રતા = વિનશ્વર મદ સ્વરૂપ પ્રભુતાને મુક્તિ સ્વરૂપે માન્ય કરવામાં આવે તો મોક્ષ પણ નશ્વર સાબિત થાય. મોક્ષ મળી ગયા પછી પણ તેનો અંતે નાશ જ થવાનો હોય તો તેવા મોક્ષને મેળવવા કોણ પ્રયત્ન કરે ? માટે તેનો મોક્ષ માનવો અસંગત છે. તથા જો સ્વતંત્રતા એટલે કર્મનિવૃત્તિ- આવું માનવામાં આવે તો અમારો જ તે સિદ્ધાન્ત થયો. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004945
Book TitleDwatrinshada Dwatrinshika Prakran Part 8
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages414
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy