________________
• बौद्धानां जीवन्मुक्तिस्वीकारः
२१११
विवर्तमानज्ञेयाऽर्थाऽपेक्षायां सति चाऽऽश्रये । अस्यां विजयतेऽस्माकं पर्यायनयदेशना ।। १० ।। विवर्तमानेति । विवर्तमानाः = प्रतिक्षणमन्यान्यपर्यायभाजो ये ज्ञेयार्थास्तदपेक्षायाम् (= विवर्त - मानज्ञेयाऽर्थाऽपेक्षायां ) आश्रये च अन्वयिद्रव्यलक्षणे सति अस्यां = उक्तमुक्तौ अस्माकं पर्यायनयदेशना विजयते, 'प्रतिक्षिप्तद्रव्यस्य बौद्धसिद्धान्तस्य परमार्थतः पर्यायार्थिकनयाऽन्तः पातित्वात् । णिव्वाणं इति वच्चति ← (सु.नि. ५ /६८/४ ) इत्युक्तं तत्तु जीवन्मुक्तिदशाऽपेक्षयेष्यतेऽस्माभिः ।
एतेन यस्मिं कामा न वसन्ति, तण्हा यस्स न विज्जति । कथंकथां च यो तिण्णो विमोक्खो तस्स नापरो ।। ← (चु.नि.पा. २/९/५८) इति चुल्लनिद्देसपालिवचनमपि व्याख्यातम्, तस्य जीवन्मुक्तिप्रतिपादकतयोपपत्तेः । कथंकथां = विचिकित्सामि'त्यर्थः ।
तत्त्वचिन्तामणिकृतस्तु नाप्यनुपप्लवा चित्तसन्ततिः अपवर्गः; आवश्यकत्वेन अनुपप्लवस्य दुःखाभावस्य पुरुषार्थत्वेन चित्तसन्ततेरपुरुषार्थत्वात्, शरीरादिकारणं विना चित्तसन्ततेरनुत्पादाच्च । न हि चित्तमात्रं तत्सामग्री, शरीरादिवैयर्थ्याऽऽपत्तेः ← (त. चिं. अनु. भाग- २ / मु.वा. पृ. १८२ ) इत्याहुः ।।३१/९।।
=
प्रमाणसापेक्षभावेऽत्रैव बौद्धमतं समाधत्ते - 'विवर्तमाने 'ति । प्रतिक्षणं अनुसमयं अन्याऽन्यपर्यायभाजः = उत्तरोत्तराऽभिनवपर्यायशालिनो ये ज्ञेयार्थाः तदपेक्षायां च सत्यां, 'योऽहं घटमद्राक्षमस्प्राक्षञ्च सोऽहमिदानीं तं संस्मरामी 'ति सार्वलौकिकाऽबाधित-स्वरसवाहिपूर्वाऽपरधियामेकाऽनुगताऽऽश्रयत्वं निश्चित्य अन्वयिद्रव्यलक्षणे आश्रये = आत्माऽभिधाने द्रव्ये स्वीक्रियमाणे सति अनुपप्लवचित्तसन्ततिलक्षणायां उक्तमुक्तौ अस्माकं अनेकान्तवादिनां पर्यायनयदेशना विजयते, प्रतिक्षिप्तद्रव्यस्य = अनपेक्षितपर्यायव्यतिरिक्तद्रव्यस्य बौद्धसिद्धान्तस्य परमार्थतः वस्तुस्थित्यनुरोधतः पर्यायार्थिकनयाऽन्तःपातित्वात् परिशुद्धपर्यायाऽऽदेशाऽन्तर्गतत्वात् । सर्वथा द्रव्यप्रतिक्षेपस्तु नैवेष्टः । अत एव विशेषावश्यकभाष्ये अश्वमित्राभिधान-सामुच्छेदिकनिनवादे जइ जिणमयं पमाणं तो मा दव्वट्ठियं परिच्चयसु । सक्कस्स व होइ जओ तन्नासे सव्वनासो त्ति ।। ← (वि. आ.भा. १४१९) इत्येवं शाक्यस्येव सर्वनाशाऽऽपादनमकारि अश्वमित्रं प्रति स्थविरैरित्यवधेयम् ।
=
=
•
For Private & Personal Use Only
=
* પર્યાયનય દેશના પ્રદર્શન
ગાથાર્થ :- જ્ઞાનાધારને માની વિવર્તમાન જ્ઞેયપદાર્થોની અપેક્ષાએ જો આલયવિજ્ઞાનસંતતિને મોક્ષ માનવામાં આવે તો અમારી પર્યાયનયની દેશના જયવંતી વર્તશે. (૩૧/૧૦)
ટીકાર્થ :- પર્યાયાર્થિક નયની દૃષ્ટિએ જ્ઞેય પદાર્થો વિવર્તમાન છે. તે પ્રતિક્ષણ નવા નવા પર્યાયને ધારણ કરે છે. તેની અપેક્ષાએ બૌદ્ધ લોકો શુદ્ધજ્ઞાનક્ષણસંતતિને મોક્ષ કહે તથા આત્માને તેના સ્થાયી અનુગત આધારસ્વરૂપે સ્વીકારે તો ઉપરોક્ત મુક્તિનો સ્વીકાર કરવામાં અમારી અનેકાન્તવાદીઓની પર્યાયનયદેશના જયવંતી વર્તશે. કારણ કે પર્યાયભિન્નરૂપે દ્રવ્યનો અસ્વીકાર (= પર્યાયરૂપે દ્રવ્યસ્વીકાર ગૌણભાવે દ્રવ્યસ્વીકાર) કરવાથી બૌદ્ધના સિદ્ધાન્તોનો પરમાર્થથી પર્યાયાર્થિક નયમાં સમાવેશ થાય છે. १. कोबाप्रतौ प्रकृतिक्षि...' इति पाठः ।
Jain Education International
ww
www.jainelibrary.org