SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २११० • प्रदीपनिर्वाणोपमशान्तिनिराकरणम् . द्वात्रिंशिका-३१/९ सर्वत्राऽस्खलितः प्रत्ययो भ्रान्तः । गुनपुनर्जातकदलीस्तम्भादिष्वपि नैकान्ताऽनन्वयो नाशः । न चायमेकान्तक्षणिकेषूपपद्यते, अनुवृत्ताऽऽकारस्याऽपि भावात्। न चायं सदृशापरापरोत्पत्तितः, ‘एकोऽयमिति भावात् । अन्यथा 'सदृशोऽयमिति स्यादिति व्यक्तमुक्तं द्रव्यालङ्कारे (द्रव्या.प्रकाश-३/पृ.१८८) श्रीहेमचन्द्रसूरिशिष्यरामचन्द्र-गुणचन्द्रविजयाभ्यामिति । → येऽपि 'निराश्रवचित्तसन्तानोत्पत्तिर्मोक्ष' इत्याचक्षते तेषामपि मोक्षतत्त्वं युक्त्याऽभ्युपायेन च बाध्यते प्रदीपनिर्वाणोपमशान्तनिर्वाणवत् चित्तानां तत्त्वतोऽन्वितत्वसाधनात् सन्तानोच्छेदानुपपत्तेश्च ८ (अ.स. १।६।पृ.१०४) इति अष्टसहस्रीवचनमप्यत्रानुयोज्यम् । तदुक्तं अष्टसहस्रीतात्पर्यविवरणे ग्रन्थकृताऽपि → प्रदीपनिर्वाणोपमं शान्तस्य निर्वाणमित्येतन्मतं यथा युक्त्याऽभ्युपायेन च बाध्यते पूर्वावस्थात उत्कृष्टजात्यप्राप्तेस्तदर्थिप्रवृत्त्यौपयिकयुक्तिबाधान्नाशस्य निर्हेतुकत्वाऽभ्युपगमेन कारणबाधाच्च । तथा 'निराश्रवचित्तसन्तानोत्पत्तिर्मुक्तिः' इति मतमपि आश्रवाऽनाश्रवचित्तानां बन्ध-मोक्षसामानाधिकरण्यानुरोधार्थमेकद्रव्याऽन्वयाऽऽश्रयणाऽऽवश्यकत्वे केवलपर्यायोद्देश्यकप्रवृत्त्यनुकूलयुक्तिबाधादाश्रवचित्तध्वंसरूपायास्तस्या निर्हेतुकत्वेनाऽभ्युपायबाधाच्च । तथा च मोक्षः पुरुषार्थो न स्यात् । अनाश्रवचित्तक्षणेष्वेकां जातिमङ्गीकृत्य तदवच्छिन्ने चरमाऽऽश्रवचित्तक्षणस्य हेतुत्वे त्वेकैकक्षणस्य कार्यकारणकोटिमध्यप्रवेशे विनिगमकाऽभावस्तत्तत्क्षणस्य कुर्वद्रूपत्वाऽनिश्चये प्रवृत्त्यभावश्च । 'तात्त्विकोऽयं कार्यकारणभावो व्यावहारिकस्त्वन्य एवेति न मोक्षार्थं मायासूनवीयशास्त्रसिद्धदीक्षादिग्रहणाऽनुपपत्तिरिति चेत् ? न, चित्तात्मनः परिणामित्वमविद्यादिशब्दवाच्यमर्थान्तरं योगसामर्थ्यनाश्यं तन्मुक्तियोग्यतां च व्यवहारतो मोक्षार्थिप्रवृत्तेः कथमप्यघटनात्तत्रितयोपगमे च स्याद्वादिमतस्यैव साम्राज्यादित्यधिकं समर्थितं अनेकान्तव्यवस्थाया अस्माभिः - (अ.स. ता.वि. १६ ।पृ.११३) इति । किञ्च मुक्तावात्मनः सर्वथोच्छेदे → निब्बानं परमं सुखं 6 (ध.प. १५/८) इति धम्मपदवचनं, → निब्बानसुखा परं नत्थ - (थे.गा.६/३/१४१) इति च थेरीगाथावचन-मप्यनुपपन्नं स्यात् । यत्तु सुगतेन सुत्तनिपाते → निव्वाणं इति नं ब्रूमि जर-मच्चुपरिक्खयं - (सु.नि.५/६५/३) इत्युक्तं तत्तु जरा-मरणपरिक्षयस्य कृत्स्नकर्मक्षयाऽविनाभावित्वादिष्टमेवाऽस्माकम् । आत्मपरिक्षयस्तु नेष्यते, जरा-मरणनाशेऽपि स्वात्मनाशस्याऽकाम्यत्वात् । यदपि च सुगतेन सुत्तनिपाते → तण्हाय विप्पहाणेण विशेषार्थ :- बौद्धमते मे २॥ शान भानपामा आवे छे. (१) प्रवृत्तिविशान अने. (२) આલ-વિજ્ઞાન. ઘટ-પટ વગેરેનું જ્ઞાન તે પ્રવૃત્તિવિજ્ઞાન કહેવાય છે. સંસારદશામાં પ્રવર્તક હોવાથી આ પ્રવૃત્તિ વિજ્ઞાન કહેવાય છે. બાહ્ય વિષયોનો આકાર જેમાંથી નીકળી ગયો હોય તેવી “અહમ્' આકારવાળી શુદ્ધ જ્ઞાનક્ષણ એટલે આલયવિજ્ઞાન. નિદ્રા અવસ્થામાં આલયવિજ્ઞાન હોય છે પણ તેની સંતતિ કાયમ ચાલતી નથી. નિદ્રા પૂર્ણ થતાં જાગ્રતદશામાં પાછી પ્રવૃત્તિવિજ્ઞાનની ધારા શરૂ થઈ જાય છે. માટે નિદ્રાકાલીન આલયવિજ્ઞાનને મુક્તિ ન કહેવાય. પણ “સર્વ ક્ષણિક ક્ષણિક વગેરે ચાર ભાવનાના પરિપાકથી જ્યારે વિસભાગ જ્ઞાનસંતતિનો ઉચ્છેદ થાય, અપુનર્ભવેન વિનાશ થાય ત્યારે જે શુદ્ધજ્ઞાનક્ષણપરંપરા-આલયવિજ્ઞાન સંતતિ ઉત્પન્ન થાય છે તે બૌદ્ધમતે મુક્તિ મનાય છે. ઉત્તરપક્ષ તો टी.अर्थमा भावित ४२ x 9. (3१/४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004945
Book TitleDwatrinshada Dwatrinshika Prakran Part 8
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages414
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy