________________
२१०१
• स्वभावस्याऽपरावर्तनीयता • नुगतकार्यजनकताऽवच्छेदकतयाऽऽत्मत्वव्याप्यजातिविशेषस्य कल्पयितुमुचितत्वात् । ___ द्रव्यात्वादावप्यनुगतकार्यस्यैव मानत्वात् । आत्मत्वेनैव शमादिहेतुत्वे विशेषसामग्र्यभावेनेश्वरेऽपितायाः कारणताया अवच्छेदकतया आत्मत्वव्याप्यजातिविशेषस्य कल्पयितुं उचितत्वात् । स च भव्यत्वाख्योऽङ्गीक्रियतेऽस्माभिः । ‘अनुगतशमादिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वाद्, द्रव्यत्वाद्यवच्छिन्न-संयोगीयकारणतावदि'त्यनुमानस्याऽपह्नोतुमशक्यत्वात्, अन्यथा नैयायिकस्य द्रव्यत्वादिजातेरप्यसिद्धिः प्रसज्येत, द्रव्यत्वादौ अपि जातौ अनुगतकार्यस्यैव = संयोगत्वाद्यवच्छिन्नानुगतकार्यताविशिष्टस्यैव मानत्वात् । 'कार्यसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् दण्डनिष्ठघटकारणतावद् यद्वा अनुगतसंयोगादिकारणता किञ्चिर्मावच्छिन्ना कारणतात्वात्, पृथिवीनिष्ठगन्धकारणतावदि'त्यनुमानेनैव नैयायिकस्य द्रव्यत्वादिजातिसिद्धिसम्भवात् । ततश्च भव्यत्वाऽपलापे द्रव्यत्वाद्यसिद्धिप्रसङ्गो दुर्वारः परस्य ।
एतेनाऽभव्यस्याऽप्युपदेशसंस्कारादिना तात्त्विकवैराग्योदये मोक्षो भविष्यतीति कल्पनाऽपि निरस्ता। 'न हि श्यामाकबीजं परिकर्मसहस्रेणाऽपि कलमाऽङ्कुराय कल्पते' इति न्यायेन स्वभावस्याऽपरिवर्तनीयत्वात्, अन्यथा परेषां द्रव्यमपि कालान्तरे गुणरूपतामापद्येत । → विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसाम्प्रतम् - (कु.सं.२/५५) इति कुमारसम्भवोक्त्यनुसारेण अभव्यस्याऽवेद्यसंवेद्यपदोच्छेदोत्साहाऽयोगोऽवसेयः । 'स्वभावो दुरतिक्रमः' इति न्यायोऽप्यत्र साक्षी । तदुक्तं हितोपदेशे अपि → यः स्वभावो हि यस्य स्यात् तस्याऽसौ दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाऽश्नात्युपानहम् ।। - (हितो.३/ ५६) इति । एतेन → संसारित्वेनैव मोक्षं प्रति स्वरूपयोग्यत्वात्, न तु तद्विशेषशमादिमत्त्वेन; सामान्यबाधके सत्येव योग्यताया विशेषनिष्ठत्वात् । शमादेरपि कार्यत्वात् तत्राऽपि संसारित्वेनैव स्वरूपयोग्यत्वाच्च - (कि.प्र.मुक्तिवाद पृ.६३) इति किरणावलीप्रकाशे वर्धमानोऽक्तिः प्रत्यस्ता, कारणतावच्छेदकगौरवात्, लघुनि सम्भवे च गुरुणि तदयोगात् ।
ननु अनुगतशमादिकार्यजनकताऽवच्छेदकतयाऽऽत्मत्वस्यैवाऽङ्गीकारोऽस्तु, आत्मत्वव्याप्यजातिविशेषकल्पने गौरवादिति चेत् ? न, आत्मत्वेनैव रूपेण शमादिहेतुत् = शमादि-मुक्तिस्वरूपयोग्यत्वेऽङ्गीक्रियमाणे ईश्वरेऽपि शम-दम-भोगाऽनभिष्वङ्गादिस्वीकाराऽऽपातात् । न चात्मत्वस्यैव मुक्ति-शमादिस्वरूपयोग्यतावच्छेदकत्वेऽपि विशेषसामग्र्यभावेन = मुक्ति-शमाद्युपधायकाऽन्यकारणविशेषविरहेण ईश्वरे मुक्ति-शमाછે. સમાદિ અનુગત કાર્યની કારણતાના અવચ્છેદકરૂપે આત્મત્વવ્યાપ્ય જાતિવિશેષની જ કલ્પના કરવી ઉચિત છે. તે જાતિવિશેષ એટલે ભવ્યત્વ. જેમ દ્રવ્યત્વ જાતિની સિદ્ધિમાં સંયોગાદિ અનુગતકાર્યની સમવાયિકારણતા જ નિયામક છે, પ્રમાણભૂત છે, આધારભૂત છે. તેમ શમાદિ અનુગત કાર્ય જ ભવ્યત્વની સિદ્ધિમાં આધારભૂત છે. જેમ દ્રવ્યત્વવ્યાપ્ય પૃથ્વીત્વ જાતિ છે તેમ આત્મત્વવ્યાપ્ય ભવ્યત્વ જાતિ છે. વ્યાપ્ય = સમાનાધિકરણ ન્યૂનવૃત્તિ ધર્મ. આત્મત્વની અપેક્ષાએ ભવ્યત્વ ગુણધર્મ ન્યૂનવૃત્તિ છે તેમ જ આત્મામાં જ રહેનાર છે. માટે સમાદિ અનુગત કાર્યના કારણતાઅવચ્છેદક ગુણધર્મ સ્વરૂપે ભવ્યત્વ જાતિની સિદ્ધિ થાય છે. જો આત્મત્વવ્યાપ્ય ભવ્યત્વને શમાદિકારણતાઅવચ્છેદક માનવાના બદલે આત્મત્વને જ શમ-દમ વગેરેના કારણતાઅવચ્છેદક તરીકે માનવામાં આવે તો ઈશ્વરમાં પણ શમ-દમાદિ ગુણોની
१. हस्तादर्श '...तानच्छेद....' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org