________________
२१००
• संसारित्वेन शमादिहेतुताव्यपोहः • द्वात्रिंशिका-३१/७ 'संसारित्वेनेति । संसारित्वेन = नित्यज्ञानादिमद्भिन्नत्वरूपेण गुरुणा = नानापदार्थघटितेन शमादौ च हेतुता न तव कल्पयितुमुचितेति शेषः । किं तु भव्यत्वेनैव एषा = हेतुता, शमाद्यरित्वेनेति । आत्मत्वस्य संसारित्वरूपत्वे महेश्वरेऽतिप्रसङ्गः । अनित्यज्ञानादिमदात्मत्वस्य तत्त्वे मूर्छितादिसंसारिजीवेष्वव्याप्तिः । अतः संसारित्वं नित्यज्ञानादिमद्भिन्नात्मत्वस्वरूपमेवाऽभ्युपगन्तुमर्हति । इत्थञ्च नित्यज्ञानादिमद्भिन्नत्वरूपेण = ध्वंसाऽप्रतियोगिज्ञानेच्छाप्रयत्नाऽऽश्रयाऽन्याऽऽत्मत्वस्वरूपेण = ध्वंसाऽप्रतियोगिज्ञानेच्छाप्रयत्नसमवायिप्रतियोगिकभेदसमानधिकरणाऽऽत्मत्वरूपेण = सामानाधिकरण्यसम्बन्धेन ध्वंसाऽप्रतियोगिज्ञानेच्छा-प्रयत्नसमवायिप्रतियोगिकभेदविशिष्टाऽऽत्मत्वस्वरूपेण संसारित्वेन नानापदार्थघटितेन नानास्वरूपेण च शमादौ हेतुता तव नैयायिकस्य लाघवप्रियस्य न कल्पयितुं उचिता, कारणताऽवच्छेदकगौरवात् । केवलं नित्यज्ञानादिमद्भिन्नत्वरूपेण संसारित्वोपगमे घटादावतिप्रसङ्गः । न च नित्यज्ञानवदन्याऽऽत्मत्वं तदिति वक्तुं युज्यते, विनिगमकाऽभावेन नित्येच्छावदन्याऽऽत्मत्वस्याऽपि तत्त्वे बाधकाऽभावात् । इत्थञ्च संसारित्वं हि नित्यज्ञानवदन्यात्मत्वं, नित्येच्छावदन्यात्मत्वं, नित्यप्रयत्नवदन्यात्मत्वं, देहवदात्मत्वं, अदृष्टादिवदात्मत्वमित्येवमनेकरूपतामाबिभृयात् । अनेकेषु अननुगतेषु गुरुषु च तेषु शमादिकारणताऽवच्छेदकताकल्पना न युज्यते । किन्तु लाघवेन भव्यत्वेनैव शमादिकं प्रति हेतुता युज्यते । जीवत्वाऽविशेषेऽप्येकवृन्तगतफलद्वयन्यायेन मधुरफलस्थानीया भव्याः, अभव्यास्त्वम्लाऽस्वादु-कुथितफलस्थानीयाः। अत एव ग्रन्थकृतोक्तं स्याद्वादकल्पलतायां → मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिभव्यत्वमिति गीयते । प्रत्यात्मानं तथा-तथापरिणामितया समुपात्तविशेषा च तथाभव्यत्वम् - (स्या.क.९/६ पृ.६७) इति पूर्वोक्तं (पृ.१०२७,१४४०) अत्रानुसन्धेयम् ।
एतेन → नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात् + (व्यो.पृ.२०) इति व्योमवत्यां व्योमशिवाचार्यवचनं, → दुःखसन्ततिः धर्मिण्यत्यन्तमुच्छिद्यते सन्ततित्वात्, दीपसन्ततिवत् - (न्या.कं.पृ.४) इति न्यायकन्दल्यां श्रीधरवचनं, → दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात्, प्रदीपसन्ततिवत् (कि.मुक्तिवाद पृ.८५) इति किरणावल्यां उदयनवचनं निरस्तम्, अभव्यादिदुःखसन्ततौ व्यभिचारात् ।
न च भव्यत्वजातावेव किं मानम् ? इति शङ्कनीयम्, ‘या या कारणता सा सा किञ्चिद्धर्माऽवच्छिन्ने ति न्यायसहकारेण शमाद्यनुगतकार्यजनकताऽवच्छेदकतया = शमत्वाद्यवच्छिन्नाऽनुगतकार्यतानिरूસમાદિહેતુતા ભવ્યત્વરૂપે જ માનવી જોઈએ. આ વાત અન્યત્ર બતાવેલ છે. (૩૧/૭)
જ ભવ્યત્વજાતિની સિદ્ધિ હ. ટીકાર્ય :- નૈયાયિકમતાનુસાર સંસારિત્વ = નિત્યજ્ઞાનેચ્છાદિથી વિશિષ્ટ એવા ઈશ્વરથી ભિન્ન આત્મામાં રહેનારું આત્મત્વ. નિત્યજ્ઞાનાદિવિશિષ્ટભિન્નઆત્મત્વસ્વરૂપ સંસારિત્વ અનેક પદાર્થોથી ઘટિત છે. નિત્યજ્ઞાન એટલે ધ્વસઅપ્રતિયોગી જ્ઞાન. તેથી હૂંસાડપ્રતિયોગિજ્ઞાન-ઈચ્છા પ્રયત્નઆશ્રયપ્રતિયોગિકભેદવિશિષ્ટઆત્મત્વસ્વરૂપ સંસારિત્વને સમાદિકારણતાઅવચ્છેદક માનવામાં ઘણું ગૌરવ આવે છે. માટે તેવી કલ્પના કરવી નૈયાયિક માટે ઉચિત નથી. પરંતુ ભવ્યત્વરૂપે જ શમાદિ કારણતા માનવી વ્યાજબી
१. हस्तादर्श 'संसारित्वेनेति' इति नास्ति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org