________________
• सज्जनस्य गरुंडानुकारिता • ____२१६९ या द्विजिह्वदलना घनाऽऽदराद् याऽऽत्मनीह पुरुषोत्तमस्थितिः ।
याऽप्यनन्तगतिरेन'येष्यते, सज्जनस्य गरुडाऽनुकारिता ।।४।। मतितिग्मगोरहितता शृङ्गात्पयोऽधेनुतः, पीयूषं विषतोऽमृताद् विषलता शुक्लत्वमङ्गारतः । वर्षोंर्वारि ततोऽनिलः सुरसजं निम्बाद् भवेत् जातुचिद् नो वाक्यमहितं सतां हतमतेरुत्पद्यते दुर्जनात् ।। ८ (सु.र.सं. ४४२) इति । प्रकृते → अधमस्थानमधमानां हि युज्यते 6 (त्रि.श.पु.१/१/७७४) इति त्रिषष्टिशलाकापुरुषचरित्रोक्तिः स्मर्तव्या ।।
सज्जनस्य अनेकान्तवादोपस्थापितभावनाज्ञानशालिनो रसना तु केवलं सुधातिशायिनः = अधरीकृताऽमृतस्य कोमलस्य प्राञ्जलस्य स्फुटस्य हितकारिणश्च वचनस्य सङ्गतिं न एव मुञ्चति कदापि । प्रकृते → दढरोसकलुसियस्स वि सुयणस्स मुहाउ विप्पियं कत्तो । राहुमुहम्मि वि ससिणो किरणा अमयं चिय मुयंति ।। 6 (व.ल.४/४) इति वज्रालग्नसूक्तिरप्यवश्यमनुस्मर्तव्या । तदुक्तं सुभाषितरत्नसन्दोहे अमितगतिना अपि → सत्यां वाचं वदति, कुरुते नात्मशंसाऽन्यनिन्दे, नो मात्सर्यं श्रयति, तनुते नापकारं परेषाम् । नो शप्तोऽपि व्रजति विकृति, नैति मन्यु कदाचित्, केनाऽप्येतन्निगदितमहो चेष्टितं सज्जनस्य ? ।। 6 (सु.र.सं.४५५) इति भावनीयम् ।।३२/३।। ___उपमागर्भं सज्जनमाहात्म्यं श्लेषाऽलङ्कारेणाऽऽविष्करोति- 'ये'ति । इह = लोके या द्विजिह्वदलना = सर्पनिर्दलना, पक्षान्तरे खलनिर्दलना एनया सज्जनस्य आत्मनि घनादरात् गरुडानुकारिता इष्यते = अङ्गीक्रियते, सौपर्णेयस्य सर्पाऽरातित्वात्, पक्षान्तरे सज्जनस्य च सदागम-युक्त्यादिभिः खलोक्तिविदारकत्वात् । या पुरुषोत्तमस्थितिः = विष्णोः समवस्थितिः, पक्षान्तरे → दाणवरिसो त्ति जिणवर ! तेण तुमं भन्नसे विण्हू - (वी.स्त.३९) इति वीरस्तववचनात् → केवलज्ञानयोगेन वीरविष्णुः प्रभुः स्मृतः - (जै.गी.१२६) इति जैनगीतावचनाच्च सांवत्सरिकदानवर्षणात् केवलज्ञानेन व्यापकत्वाच्च वर्धमानादेः तीर्थङ्करस्य समवस्थितिः एनया घनादरात् सज्जनस्य आत्मनि गरुडानुकारिता इष्यते, गरुडस्य विष्णुवाहनत्वात् पक्षान्तरे ‘हियए जिणाण आणा' (कु.मा.पृ.१३६) इति कुलयमालायां उद्योतनसूरिवचनात् सद्दृष्टिहृदये च सदैवाऽर्हतोऽवस्थानात् । याऽपि = या च अनन्तगतिः = असीमगतिः; → 'शेषोऽनन्तो वासुकिस्तु' - (अ.को.१/४४६) इति अमरकोशवचनात्, → शेषो नागाधिपोऽनन्तः - (अ.चि.४/१३०७) इति अभिधानचिन्तामणिवचनाच्च पक्षान्तरे शेषनागवदसीमाऽऽध्यात्मिककर्तव्यधराधारणपद्धतिः एनया अपि सज्जनस्य
વિશેષાર્થ :- જે સતત કાયમ બધા સાથે, બધા સ્થળે કઠોર-નઠોર જ વચન બોલે તેને દુર્જન સમજવો. તથા તમામ પરિસ્થિતિમાં સર્વ સ્થાને અમૃત ઝરતી મીઠી વાણી બોલે તેને ઉત્કૃષ્ટ કક્ષાના सनो तरी: सम41. (७२/3)
ફ ગ્લેષાલંકરગર્ભ સજ્જનસ્તુતિ છે ગાથાર્થ - લોકમાં સાપનું જે દલન છે તથા પુરુષોત્તમ વિષ્ણુનું જે અવસ્થાન છે તથા જે અનન્તગતિ છે તે ત્રણેય વડે સજ્જનના આત્મામાં અત્યંત આદરથી ગરુડતુલ્યતા સુપ્રસિદ્ધ(સુવિદિત) થાય છે. (૩૨/૪)
વિશેષાર્થ:- “જિલ્લ’ શબ્દનો અર્થ સાપ અને દુર્જન થાય. “પુરુષોત્તમ' શબ્દનો અર્થ વિષ્ણુ અને જ્ઞાનથી વ્યાપક એવા તીર્થકર થાય. “અનન્તગતિ' શબ્દનો અર્થ છે શેષનાગની ગતિ અને અસીમગતિ. ગરુડ સાપનું
१. मुद्रितप्रतौ '...रेतये...' इति पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org