SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ • सज्जननामप्रभाववर्णनम् • २१६७ ॥ अथ सज्जनस्तुतिद्वात्रिंशिका ॥३२॥ नाम सज्जन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चेद् भवेत् । नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोक्तयः ॥१॥ नयलता दुरन्तो गहनो ग्रन्थरत्नाकरो हि साम्प्रतम् । यत्कृपया मया तीर्णः सज्जनान् तान् स्तुवे मुदा ।।१।। __अनन्तरं मुक्तिद्वात्रिंशिकायां मुक्तिरुपवर्णिता । सा च सत्यपि बाह्यक्रियाकलापे सज्जनगोचरद्वेषे सति न सम्भवतीति सज्जनद्वेषाऽभावव्याप्यां निर्व्याजां तत्स्तुतिं प्रकृतग्रन्थाऽविच्छेदफलकाऽन्त्यमङ्गलरूपेण कुर्वन्नाह- 'नाम' इति । सुगमाऽपीयं द्वात्रिंशत्तमा द्वात्रिंशिका स्वस्मिन् सज्जनगुणानुरागपरिपुष्टये बालानामुपकाराय च लेशतः तन्यते मया। 'सज्जन' इति त्रिवर्णकं = सार्धत्रिशब्दकं नाम = अभिधानं दिव्यमन्त्रात्मकं चेद् = यदि कर्णकोटरकुटुम्बि = श्रोत्रनिष्कुहसुपरिचितं यद्वा श्रवणगृहसभ्यः भवेत् तदा दिव्यमन्त्रनिहताः सज्जनशब्दलक्षणाऽद्भुतमन्त्रशक्तिव्याहताः विषशक्तयः खलोक्तयः नोल्लसन्ति । यद्यपि विषशक्तयस्त्विहभवविनाशिन्यः खलोक्तयस्तूभयभवहितनाशिन्यः तथापि लोकेऽन्यतादृशोपमाविरहेण विषशक्त्युपमाऽत्र गृहीता । एतावता सज्जनसङ्गतेः कर्तव्यतोपदर्शिता अलब्धाऽसङ्गपदानाम् । तदुक्तं संयुक्तनिकाये देवतासंयुक्ते → सब्भिरेव समासेथ, सब्भि कुब्बेथ संथवं । सतं सद्धममाय सब्बदुक्खा पमुच्चति ।। - (सं.नि.१/१/ सतुल्लपकायिकवग्ग-१/३१ पृष्ठ.२१) इति । सब्भि = सद्भिः सार्धं, अाय = अभिज्ञाय, शिष्टं स्पष्टम् । तदुक्तं हितोपदेशे अपि → सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ।। 6 (हितो.४/९०) इति ।।३२/१।। છે સજજનસ્તુતિ દ્વાબિંશિક પ્રકાશ @ હવે ગ્રંથકારશ્રી સજ્જનોની સ્તુતિ કરી રહ્યા છે. હ ‘સર્જન’ શબ્દ એટલે દિવ્યમંત્ર છે ગાથાર્થ:- “સજ્જન આ પ્રમાણે ત્રણ અક્ષરવાળું નામ જો કાનરૂપી બખોલનો = ઘરનો પારિવારિક સભ્ય બને તો ઝેરી શક્તિવાળા દુર્જનોના મારકવચનો દિવ્યમંત્રથી હણાયેલા હોય તેમ ઉછળતા નથી. (3२/१) વિશેષાર્થ :- સાપનું ઝેર ચઢે તો માણસ મરી જાય. પરંતુ ગાડિક લોકો મંત્રશક્તિનો પ્રયોગ કરે તો સર્પના વિષની મારક શક્તિ હણાઈ જાય છે. અને ઝેરી સાપ જેને કરડેલ હોય તે માણસ भरतो नथी. ते ४ ते दुर्छन = साप, हुनवा = २, नवशति = 3रनी शक्ति, हिव्यमंत्र = “સજ્જન' એવું સાડા ત્રણ અક્ષરનું નામ. આ રીતે અર્થઘટના કરવી. સજ્જનનું નામ જ જો આવી પ્રચંડશક્તિ ધરાવે તો સજ્જનની પોતાની શક્તિ કેટલી હોય ? તે સમજી શકાય તેવી વાત छे. (३२/१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004945
Book TitleDwatrinshada Dwatrinshika Prakran Part 8
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages414
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy