________________
२०१८ • केवलिनि कृत्यत्वमीमांसा •
द्वात्रिंशिका-३०/९ = वेदनीयादिभिः सद्भिः तदभावेऽपि = कृतकृत्यत्वाऽभावेऽपि नो = नैव बाधा ।
सर्वथा कृतकृत्यत्वस्य सिद्धेष्वेव सम्भवात् । उपादित्साभावेऽपि उपादेयस्य मोक्षस्य सयोगिकेवलित्वकालेऽसिद्धेः । रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भुक्तिपक्षेऽप्यबाध एवेति कथितप्रायमेव ।।९।।
द्भावान्न भवस्थकेवलिनां कृतकृत्यतेति वाच्यम्, वेदनीयादिभिः सद्भिः = विद्यमानैः कारणैः भवस्थकेवलिनां कृतकृत्यत्वाऽभावेऽपि = कृत्स्नकृतार्थत्वविरहेऽपि अस्मन्मते नैव काचित् बाधा, कवलभोजित्वेऽपि च केवलज्ञान-दर्शन-क्षायिकसम्यक्त्व-चारित्र-दानादिलब्धिपञ्चकाऽप्रतिघातात्, घातिकर्मचतुष्टयक्षयजन्यगुणभाजनतया भवस्थसर्वज्ञानां देशकृतकृत्यत्वस्यैवाऽस्माभिरभ्युपगमाच्च । सर्वथा = कात्स्न्र्येन कृतकृत्यत्वस्य सिद्धेषु एव सम्भवात्, निखिलकर्मक्षयजन्याऽखिलगुणभाजनत्वात् । एतेन तीर्थकृतो धर्मदेशनादिरपि व्याख्यातः, तथैव तत्कर्मक्षयोपपत्तेः । तदुक्तं विशेषावश्यकभाष्ये → णेगंतेण कयत्थो जेणोदिन्नं जिणिंदनामं से । तदवंझफलं तस्स य खवणोवाओऽयमेव जओ ।। 6 (वि.आ.भा.११०३) इति । यथा चैतत्तथाऽग्रे (द्वा.द्वा.३०/१५-१६, पृ.२०२९-२०३०) दर्शयिष्यते । न चैवमविरतक्षायिकसम्यग्दृशोऽपि कृतकृत्यत्वापत्तिरिति शकनीयम, तस्य देशेन कृतकृत्यत्वं, केवलिनां तु देशैः कृतकृत्यत्वमिति विशेषात् । न चैवं 'केवली कृतकृत्यः, न त्वविरतक्षायिकसम्यग्दृष्टि'रिति कथं व्यवहारः? इति शङ्कनीयम्, केवलिनमपेक्ष्य कृतकृत्यत्वाभावविषयत्वात् तदुपपत्तेः, महत्यपि तडागे 'समुद्रो महान् न तडागः' इति समुद्रमपेक्ष्य महत्त्वाभावव्यवहारवत् । तदवधिकत्वं च सान्निध्यादिसिद्धं तत्राऽवभासते इति व्यवहारपद्धतिः । निश्चयस्तु केवलमखण्डमेव वस्तु मन्यते इति कात्स्न्येन कृतकृत्यं सिद्धमेव स कृतकृत्यमाह, नान्यद् । तदुक्तं अध्यात्ममतपरीक्षायां → तेणं केवलनाणी कयकिच्चो चेव कवलभोई वि । नाणाईण गुणाणं पडिघायाभावओ सिद्धो ।। - (अ.म.प.१२३) इति ।
ननु गृहीतग्राह्यतया यत्किञ्चिद्विषयकोपादित्साविरहात् भवस्थकेवलिनोऽपि सर्वथा कृतकृत्यत्वमेवेति कवलभोजित्वे तद्धान्यापत्तिरपरिहार्यैवेति चेत् ? मैवम्, सम्प्राप्तकेवलतया उपादित्साऽभावेऽपि = विषयोपादानेच्छाविरहेऽपि उपादेयस्य परमप्रयोजनभूतस्य मोक्षस्य सयोगिकेवलित्वकाले चतुर्दशगुणस्थानककाले च असिद्धेः = अनिष्पत्तेः न भवस्थकेवलिनः सर्वथा कृतकृत्यत्वं सम्भवति, येन कवलभोजित्वे तद्धान्यापत्तिरनिष्टाऽऽपद्येत । न च परमप्रयोजनाऽनिष्पत्तावपि राग-द्वेषादिविरहेण कृतकृत्यत्वमनाविलमेव भवस्थकेवलिनीति वाच्यम्, रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भवदभिमतस्य भुक्तिपक्षेऽपि = सर्वज्ञभुक्तिછે. ભલેને ભવસ્થ કેવલીમાં વેદનીય વગેરે ભવોપગ્રાહી અઘાતિક રહેલા હોય. અથવા તો ૧૩ મા ગુણઠાણે રહેલા કવલભોજી કેવલજ્ઞાનીમાં દિગંબર લોકો કૃતકૃત્યતા ન માને તો પણ અમને શ્વેતાંબરોને કોઈ વાંધો નથી. કારણ કે સર્વથા- તમામ પ્રકારે કૃતકૃત્યતા તો સિદ્ધ ભગવંતોમાં જ સંભવે છે. કશું પણ મેળવવાની ઈચ્છા ન હોવા છતાં પણ ઉપાદેય-ગ્રાહ્ય એવો મોક્ષ તો સયોગી કેવલીદશામાં મળેલ નથી જ. માટે સર્વથા કૃતકૃત્યતા દેહધારી કેવલીમાં અમને માન્ય નથી. જો રાગ વગેરે ન હોવા માત્રથી તમે સયોગી કેવલીને કૃતકૃત્ય માનતા હો તો કેવલજ્ઞાની ભોજન કરે તો પણ કોઈ તકલીફ આવતી १. मुद्रितप्रतौ ....काले सिद्धेः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org