________________
· बुभुक्षाया दोषत्वंमीमांसा •
अथ केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।। ३० ।।
अनन्तरं विनय उक्तस्तत्पालनेन च महात्मा केवली भवति, स च कवलभोजित्वान्न कृतार्थ इति दिगम्बरमतिभ्रमनिरासार्थमाह
सर्वथा दोषविगमात् कृतकृत्यतया तथा । आहारसंज्ञाविरहादनन्तसुखसङ्गतेः ।। १ ।। सर्वेथेति । (१) सर्वथा = सर्वप्रकारैः दोषविगमात् क्षुधायाश्च दोषत्वात्तदभावे कवलाहाराऽनुपपत्तेः ।
* नयलता
विनयपालनेनैव कैवल्यमुपजायते । कर्मप्रयुक्तभुक्तौ तु कृताऽर्थता न लीयते ॥ १ ॥ भुक्तावपि कृतार्थत्वं नाथ ! तवाऽद्भुतं सदा । मुक्तौ तु परमं तद्धि, प्रेक्षावतां प्रमोददम् ।।२ ।। अनन्तरं अव्यवहितपूर्वद्वात्रिंशिकायां विनयः हेतु-स्वरूप - फल - प्रकारादिद्वारा दशवैकालिकाद्यनुसारेण उक्तः । तत्पालनेन च = समुचितविनयकरणेन हि महात्मा केवली केवलज्ञानी भवति । स च श्वेताम्बराभिमतः केवलज्ञानी कवलभोजित्वान्न कृतार्थः इति दिगम्बरमतिभ्रमनिरासार्थं प्रथमं तावत् श्लोकपञ्चकेन दिगम्बरमतमेव आह 'सर्वथे 'ति । ननु देवत्वव्यवहारनिबन्धनं तावद् निःशेषदोषराहित्यमेवाऽभिधानीयम् । तथा च सर्वप्रकारैः = हेतु-स्वरूपाऽनुबन्धोदयोदीरणादिरूपैः दोषविगमात् क्षुधायाः पिपासायाः च दोषत्वात् तदभावे = दोषत्वावच्छिन्नध्वंसे सति कवलाहाराऽनुपपत्तेः । न च क्षुधायाः दोषत्वमेवाऽसिद्धमिति वाच्यम्, क्षुत्पिपासा - जराऽऽतङ्क - जन्माऽन्तक-भय-स्मयाः । न च राग-द्वेषमोहाश्च यस्याऽऽप्तः स प्रकीर्त्यते ।। ← ( रत्न. श्रा . १ / ६) इति रत्नकरण्डक श्रावकाचारवचनात् बुभुक्षायाः दोषत्वसिद्धेः । अत्र ‘च' शब्देन चिन्ता - रत्यरति-निद्रा-विस्मय-विषाद-खेदग्रहणम् । एतेऽष्टादश दोषा यस्य न सन्ति तस्यैवाऽऽप्तत्त्वेन सर्वज्ञे कवलाहाराऽसम्भव एव । न हि कारणं विना कार्योत्पत्तिमुररीकुरुते कश्चिदपि विपश्चित् । प्रयोगस्त्वेवम्- सर्वज्ञः न कवलभोजी, सर्वथा दोषविगमात्, सिद्धवदति । अयं प्रथमो दिगम्बराऽभिहितो हेतुः । अस्य निराकरणं सप्तमाऽष्टमकारिकयोर्भविष्यतीति ध्येयम् ।
२००९
=
વલિભુક્તિ વ્યવસ્થાપન દ્વાત્રિંશિકા પ્રકાશ ફ્
૨૯ મી બત્રીસીમાં વિનયનું સ્વરૂપ જણાવ્યું. વિનયના પાલનથી મહાત્મા કેવલજ્ઞાની બને છે. ‘તે કેવલજ્ઞાની કવલભોજી કવલાહાર કરતા હોવાથી કૃતાર્થ નથી' - આ પ્રમાણે દિગંબરોની ભ્રમણા છે. દિગંબરોના આ મતિભ્રમને દૂર કરવા માટે ૩૦ મી બત્રીસીમાં ગ્રંથકારશ્રી પ્રથમ પાંચ શ્લોક દ્વારા દિગંબરની માન્યતા જણાવે છે.
-
ૢ વલી ક્વલભોજી ન હોય દિગંબર હ
गाथार्थ :- (१) सर्वथा घोषनो उच्छे थवाथी, (२) हृतहृत्य होवाथी, (3) आहार संज्ञानो અભાવ હોવાથી (૪) તથા અનંત સુખ હાજર હોવાથી કેવલી કવલાહારી ન હોય. (૩૦/૧)
ટીકાર્થ :- (૧) કેવલજ્ઞાનીમાંથી સર્વ પ્રકારે સર્વ દોષો નાશ પામેલા છે. ભૂખ એ એક પ્રકારનો દોષ છે. માટે કેવલજ્ઞાનીમાં ભૂખરૂપ દોષ ન હોય. કેવલીને ભૂખ જ ન લાગે તો કવલાહાર કેવલીમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org