________________
• संसक्त - राजसादितपः प्रदर्शनम् •
द्वात्रिंशिका -२९/२४
कुर्यात्तपस्तथाऽऽचारं नैहिकाऽऽमुष्मिकाऽऽशया । कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते । । २४ । ।
=
उक्तः श्रुतसमाधिः सभेदः । साम्प्रतमवसराऽऽयातं तपआचारसमाधिचतुर्विधत्वमाह- 'कुर्यादिति । ऐहिकाऽऽमुष्मिकाऽऽशया = इहलौकिकलब्ध्यादिवाञ्छया धर्मिलवत् जन्मान्तरभोगस्पृहया ब्रह्मदत्तवत् न कुर्यात् तपः अनशनादि-प्रायश्चित्तादिकं द्वादशविधं तथा आचारं चरणमूलोत्तरगुणमयं कीर्त्त्याद्यर्थं आदिपदेन वर्ण-शब्द-श्लाघाग्रहणं, सर्वदिग्व्यापी साधुवादः कीर्त्तिः, एकदिग्व्यापी = वर्णः, अर्धदिग्व्यापी = शब्दः, तत्स्थान एव श्लाघा, तदर्थं च नो कुर्यात् तपस्तथाऽऽचारम् । किन्तु निष्कामः सन् निर्जराकृते कर्मनिर्जराऽविनाभाव्यात्मशुद्धये तपः तथाऽऽचारं कुर्यात् । तदुक्तं दशवैकालिके चतुव्विधा खलु तवसमाधी भवति । तं जधा - णो इहलोगट्ठताए तवमहिद्वेज्जा, तवसमाधीए पढमं पदं । णो परलोगट्ठताए तवमहिद्वेज्जा, तवसमाधीए बितियं पदं । णो कित्ति - वण्ण-सह-सिलोगट्ठताए तवमहिद्वेज्जा, तवसमाधीए ततियं पदं । णऽण्णत्थ णिज्जरट्ठताए तवमहिद्वेज्जा, तवसमाधीए चतुत्थं पदं भवति भवति यऽत्थ सिलोगो - विविहगुणतवोरये य णिच्चं भवति निरासए निज्जर तवसा धुणति पुराणपावगं जुत्तो सदा तवसमाधिए ।। चतुव्विधा खलु आयारसमाधी भवति । तं जाणो होगा आयारमहिद्वेज्जा, आयारसमाधीए पढमं पदं । णो परलोगट्ठताए आयारमहिद्वेज्जा, आयारसमाधीए बितियं पदं । णो कित्ति वण्ण-सह- सिलोगट्ठताए आयारमहिद्वेज्जा, आयारसमाधीए ततियं पदं । णऽण्णत्थ आरहंतिएहिं हेतुहिं आयारमहिद्वेज्जा, आयारसमाधीए चतुत्थं पदं भवति । सिलोगो पुण एत्थ - जिणवयणमते अतिंतिणे पडिपुण्णाततमाययट्ठिते । आयारसमाहिसंवुडे भवति य दंते भावसंधए ।। ← (द.वै.९/४/४-५ ) इति । आहारोपधिपूजारसगौरवादिपारवश्येन संसक्ततपःकरणे त्वासुरीभावनाप्रसङ्गो दुर्वा एव । यथोक्तं बृहत्कल्पभाष्ये आहार- उवहि- पूयासु जस्स भावो उ निच्चसंसत्तो । भावोवहतो कुणइ अ तवोवहाणं तदट्ठाए ।। ← (बृ.क.भा. १३१७ ) इति ।
।
संसक्तं तपो राजसकर्मत्वेन परै रुच्यते । यथोक्तं भगवद्गीतायां सत्कार - मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। ← (भ.गी. १७/१८ ) इति ध्येयम् । મેળવવાના મલિન આશયથી શાસ્ત્ર ભણીને ચોથા નંબરની શ્રુતસમાધિમાં પોતાની જાતને ગોઠવવા/મનાવવા પ્રયત્ન કરે તે એક જાતનો દંભ જ બની જાય છે. આ વાત લક્ષ બહાર ન જવી જોઈએ. પોતાના આત્મકલ્યાણની કામના વિનાનાને બીજાના તાત્ત્વિક કલ્યાણની ખરી ભાવના જાગવી જ દુર્લભ છે. માટે જ ‘ગ્રંથિભેદ કર્યા વિના, સમ્યગ્દર્શનના અનુભવવગર, વિશુદ્ધ આત્મસ્વરૂપનો સાક્ષાત્કાર કર્યા વિનાના જે જીવો ધર્મકથા કરવા મંડે છે તે કથા નહિ પણ અકથા જ છે.’ - આવું નવમી બત્રીસીમાં (જુઓ પૃષ્ઠ.૬૬૬) દશવૈકાલિકનિયુક્તિના સંવાદપૂર્વક ગ્રંથકારશ્રીએ જણાવેલ છે. (૨૯/૨૩)
આ તપ અને આચારની સમાધિના ચાર-ચાર ભેદ ફ
१९९८
गाथार्थ :- (१) मा लोडनी अमना विना, (२) परसोड़नी अमना विना, (3) डीर्ति वगेरेनी આશંસા વિના (૪) નિષ્કામ ભાવે કર્મનિર્જરા માટે તપ કરવો જોઈએ અને આચાર પાળવો જોઈએ. (२८/२४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org