________________
१८२८
• कैवल्यलाभोपायविज्ञापनम् •
द्वात्रिंशिका - २६/२१
तदुक्तं- “तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति" (यो. सू. ३-५४) ।
♦ad: =
तस्मात् ज्ञानात् पुरुष-सत्त्वयोः शुद्धिसाम्येन कैवल्यं भवति । तत्र पुरुषस्य शुद्धिरुपचरित भोगाऽभावः । सत्त्वस्य तु सर्वथा कर्तृत्वाऽ • भिमाननिवृत्त्या स्वकारणेऽनुप्रवेश इति । तदिदमुक्तं- “सत्त्व- पुरुषयोः शुद्धिसाम्ये कैवल्यमिति” ( यो. सू. ३-५५ ) ।। २१ ।।
ज्ञानम् ← (यो.सू.३/५४) इति । प्रकृते योगसूत्रभाष्यमित्थमवसेयम् → तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः। सर्वविषयत्वान्नाऽस्य किञ्चिदविषयीभूतमित्यर्थः । सर्वथाविषयं = अतीताऽनागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः । अक्रमं इति एकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्यर्थः । एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांऽशो योगप्रदीपः, मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिः ← (यो. भा. ३/५४) इति । 'ऋतम्भरा प्रज्ञैव मधु, मोदकारणत्वादिति (त. वै.३/५४) तत्त्ववैशारद्यां वाचस्पतिमिश्रः । सर्वेषामेवेतरज्ञानानां प्रदीपतुल्यत्वविवक्षया सत्त्व - पुरुषविवेकजज्ञानस्य सूर्यतुल्यत्वं विष्णुपुराणे अन्धं तम इवाऽज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे ! विवेकजम् ।। ← (वि.पु.६/५/६२) इत्येवमावेदितमिति ध्येयम् ।
तस्मात् विवेकजात् ज्ञानात् योगसूत्रभाष्यकृन्मते विवेकजज्ञानाऽप्राप्तेर्वा सत्त्व - पुरुषयोः शुद्धिसाम्येन कैवल्यं = आत्यन्तिकी दुःखनिवृत्तिः भवति । उपचरितभोगाऽभावः = बुद्धिधर्मत्वात् पुरुषे उपचरितमात्रस्य प्रत्ययविशेषाऽऽख्यस्य भोगस्याऽयोगः पुरुषस्य शुद्धिः विवेकसाक्षात्काराज्जायमानाऽवगन्तव्य सत्त्वस्य = बुद्धिसत्त्वस्य शुद्धिः तु सर्वथा = सर्वैरेव प्रकारैः कर्तृत्त्वाऽभिमाननिवृत्त्या = बुद्धिविलक्षणपुरुषसाक्षात्कारमात्रादविद्यामूलककर्तृत्व-भोक्तृत्वाऽहङ्कारनिवृत्त्या कृताधिकारस्य चित्तसत्त्वस्य स्वकारणे प्रधाने अनुप्रवेशः
=
प्रतिलोमशक्त्या समावेश इति । तदिदमुक्तं पतञ्जलिना योगसूत्रे 'सत्त्वे 'ति ।
प्रकृते योगसूत्रभाष्यमित्थं वर्तते यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्याऽन्यताप्रतीतिमात्राऽधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाऽभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वरस्याऽनीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्लेशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थतस्तु ज्ञानाददर्शनं निवर्तते । तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः । क्लेशाऽभावात्कर्मविपाकाऽभावः ।
=
તેથી તો યોગસૂત્રમાં જણાવેલ છે કે → ‘તારક જ્ઞાનનો વિષય સર્વ પ્રકારે સર્વ પદાર્થો છે. તથા તે જ્ઞાન ક્રમશૂન્ય છે.' - આ તારક જ્ઞાનથી પુરુષ અને બુદ્ધિની શુદ્ધિ એકસરખી થાય ત્યારે કૈવલ્ય પ્રગટે છે. તેમાં પુરુષની શુદ્ધિ એટલે ઉપચિરત ઔપચારિક ભોગનો અભાવ. તથા બુદ્ધિની શુદ્ધિ તો સર્વ પ્રકારે કર્તૃત્વનો અહંકાર રવાના થવાથી પોતાના કારણભૂત પ્રધાનતત્ત્વમાં સત્ત્વગુણપ્રધાન બુદ્ધિતત્ત્વનું વિલીન થવું તે છે. તેથી તો યોગસૂત્રમાં જણાવેલ છે કે ‘સત્ત્વગુણપ્રધાન બુદ્ધિ અને પુરુષની એકસરખી શુદ્ધિ થાય તો કૈવલ્ય થાય.' (૨૬/૨૧)
१. हस्तादर्शे '...मत्रमं' इत्यशुद्धः पाठः । हस्तादर्शविशेषे च 'विक्रमं ' इति त्रुटितः पाठः । २ मुद्रितप्रतौ ' ... चरिता । भोगाभावः' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ' पुरुषसत्त्वयोः' इति पदव्यत्यासः । ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org