________________
१६७२
• प्रशान्तवाहितावैविध्यम् . द्वात्रिंशिका-२४/२२ प्रशान्तेति । प्रशान्तवाहितासनं साङ्ख्यानां, विसभागपरिक्षयो बौद्धानां, शिववन शैवानां, ध्रुवाध्वा महाव्रतिकानां इति = एवं हि योगिभिः अदः = अऽसङ्गाऽनुष्ठानं गीयते ।।२२।।
योगदृष्टिसमुच्चय (यो.दृ.स.१७६) कारिकोपन्यासेनाऽसङ्गाऽनुष्ठाननामान्याह- 'प्रशान्ते'ति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति-'प्रशान्तवाहितासंगं साङ्ख्यानामिति । उपलक्षणात् पातञ्जलानामपि ग्रहः । बौद्धानां विसभागपरिक्षयः = हीनत्वोच्चत्वादिसङ्कल्प-विकल्पात्मकलौकिकसंज्ञा-कामात्रव-भवानवाऽविद्याश्रवलक्षणविसभागसन्ततिप्रणाशः । प्रकृते → सो ‘अत्थि इदं, अत्थि हीनं, अत्थि पणीतं, अत्थि इमस्स सञआगतस्स उत्तरं निस्सरण'न्ति पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति । विमुत्तस्मिं विमुत्तमिति आणं होति । ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया'त्ति पजानाति । अयं वुच्चति, भिक्खवे, 'भिक्खु सिनातो अन्तरेन सिनानेना'ति + (म.नि.वस्त्रसूत्र १/ १/७-७८) इति मज्झिमनिकायसूत्रसन्दर्भो द्रष्टव्यो नानातन्त्रतात्पर्यजिज्ञासुभिः ।
अवशिष्टः स्पष्ट एव टीकार्थ इति न तन्यते। नवरं प्रकृते → असङ्गवृत्त्याख्यकसत्प्रवृत्तिपदं प्रभायां लभते महात्मा। प्रशान्तवाहित्वमपीदमेवेदमेव नामान्तरतोऽन्य आहुः ।। - (अ.त.३/१३०) इति अध्यात्मतत्त्वालोककारिकाऽनुसन्धेया । श्रीहरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये →
चारित्रलब्धिरेषा सा संयमश्रेणिरुत्तमा । भवद्रुमाऽनलज्वाला क्लेशानां प्रलयक्रिया ।। परा निवृत्तिः प्रकृतेर्दिदृक्षाभवनक्रिया । संयोगशक्तिव्यावृत्तिकैवल्याप्तेश्च सत्स्थितिः ।। बोधमण्डनकरी चैव रागादिनिधनक्रिया । भवान्तप्राप्तियात्रा च स्कन्धाऽभावक्रियेति च ।। प्रशान्तवाहिता चैव गीयते मुख्ययोगिभिः । भवाब्धिवेलाव्यावृत्तिर्घातिकर्मनिर्जरेति च ।। अस्यामयमवस्थायां निर्वाणार्थं तु चेष्टते । भावेनैकान्ततो धीमान् द्रव्यतस्तु विकल्पतः ।।
6 (ब्र.सि.स.१८२-१८६) इति यदुक्तं तदप्यत्र न विस्मर्तव्यमनेकतन्त्राऽभिप्रायाऽन्वेषणाऽनुप्रेक्षाऽवधारणादिकुशलैः ।
न च पूर्वं (द्वा.द्वा.२२/१६ भाग-५ पृ.१५०४) दीप्रायां दृष्टौ प्रशान्तवाहितालाभो दर्शित इह च प्रभायामिति कथं नाऽनयोर्विरोधः? इति शङ्कनीयम्, दीप्रायां लोकसंज्ञापरिहाराऽऽरम्भक-मृदुसंज्ञकप्रशान्तवाहितालाभः पूर्वमभिप्रेतः इह च मोहोन्मूलनकारकाऽधिमात्रसंज्ञकप्रकृष्टप्रशान्तवाहितालाभ इति
ટીકાર્ચ - આ અસંગ અનુષ્ઠાન સાંખ્યદર્શનના યોગીઓ વડે પ્રશાંતવાહિતા નામથી ઓળખાવાય છે. બૌદ્ધ યોગીઓ અસંગ અનુષ્ઠાનને વિસભાગપરિક્ષય નામે જણાવે છે. શૈવ દર્શનીઓ શિવવર્ભ નામે અસંગ અનુષ્ઠાનને જણાવે છે. મહાવ્રતિકો અસંગ અનુષ્ઠાનને યુવાધ્વા નામથી બોલાવે છે. (૨૪/૨૨)
વિશેષાર્થ:- આ શ્લોકમાં જૈનદર્શનમાન્ય અસંગઅનુષ્ઠાન અન્ય દર્શનોમાં કયા નામથી ઓળખાવાય છે ? તે બાબત ઉપર પ્રકાશ પાથરેલ છે. પ્રશાંતવાહિતા વિશે મહોપાધ્યાયજી મહારાજ સ્વયં વિશેષ વિગત આગળના ત્રણ શ્લોકમાં જણાવશે. તેથી તેના વિશે અહીં વિશેષ વાત અમે નથી કરતા. બૌદ્ધમાન્ય વિસભાગપરિક્ષય વિશે થોડી વિગત જોઈએ. બૌદ્ધ ક્ષણિકવાદી છે. તેના મતે સર્વવસ્તુ ક્ષણભંગુર છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org