________________
१६५१
• आत्मवित् कर्म न बध्नाति • भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढाऽऽवेशस्तेन यातीह कः पथा ।। १३ ।। ८६) इति च । अत एव तस्य भोगप्रवृत्त्युपरमे चित्तशान्तिलाभेन भोगतृष्णा हीयते । प्रकृते विना द्वेषञ्च रागञ्च गोचरान् यस्तु खैश्चरेत् । स्वाधीनहृदयो वश्यैः सन्तोषं स समृच्छति ।। ← (ग.गी. १/६१) इति गणेशगीतावचनमपि यथातन्त्रमनुयोज्यम् । 'खैः इन्द्रियैः', शिष्टं स्पष्टम् । भवाभिनन्दिनस्तु भोगप्रवृत्त्युपरमे महामोहाऽनलदाहेन भोगतृष्णाऽभिवर्धत एवेत्यवधेयम् । तदुक्तं अध्यात्मगीतायामपि
वैषयिकपदार्थेर्हि स्वात्मविन्नैव बध्यते । ज्ञानिनो बन्धनं कर्तुं शक्तः कोऽपि न जायते ।। स्पर्शादीन्द्रियभोगेभ्यो जन्यं परवशं सुखम् । वस्तुतो दुःखमेवाऽस्ति तत्र ज्ञानी न मुह्यति ।। ← (अध्या.गी.२८,२८०) इति । अत एव भोगप्रवृत्तावपि न तस्य नवीनकुसंस्कारोत्पादः, असङ्गभावेन भोगप्रवृत्तेः प्रारब्धकर्मप्रयुक्तत्वात् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां यथा कुलालचक्रस्य कुम्भकारेण कोऽप्यहो ! । सार्धं घूर्णायमानस्य सम्बन्धो नास्ति तत्क्षणम् ।। निसङ्गरूपतो भोगात् तत्त्वज्ञे भोगजास्तथा । संस्काराः क्रियमाणानां जायन्ते नैव कर्मणाम् ।। ← (शं.गी. ६/५८-५९) इति । इदञ्च विशुद्धतरसम्यक्त्वमाहात्म्यमवसेयम् । अत एव मोक्षप्रा अपि किं बहुणा भणिएणं जे सिद्धा णरंवरा गए काले । सिज्झिहहि जे वि भविया तं जाणह सम्ममाहप्पं ।। ← (मो.प्रा.८८) इत्युक्तमिति भावनीयं तत्त्वमेतदतिगम्भीरबुद्धया विषयविरक्तकषायविप्रमुक्ताऽन्तःकरणैः ।
बौद्धानामपि सम्मतमिदं यदुत कामभोगाऽऽस्वाद - दुष्परिणामानां तत्त्याग - सुपरिणामानां च यथावस्थितस्वरूपेणाऽदर्शने नैव स्वयं परमार्थतः तत्त्यागः, दर्शने च तदुपसेवनेऽपि ततः प्रीति- शान्त्याद्यनुपलम्भेन स्वयमेव प्रयाणमस्खलितगत्येति । इदमेवाऽभिप्रेत्य मज्झिमनिकाये महादुःखस्कन्धसूत्रे “ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं कामानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नप्पजानन्ति ते वत सामं वा कामे परिजानिस्सन्ति नेतं ठानं विज्जति । ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं कामानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं पजानन्ति ते वत सामं वा कामे परिजानिस्सन्ति ।... ठानमेतं विज्जति ← (म.नि. १ ।२।१७० पृ. १२२ ) इत्युक्तम् । 'अस्सादञ्च = आस्वादञ्च', 'आदीनवः
दुष्परिणामः', 'सामं = स्वयं', शिष्टञ्च विभावितार्थमेव । एतेन नाऽफुसन्तं फुसति च फुसन्तञ्च ततो फुसे ← (सं. नि. शक्तिवर्ग-१ ।१ । ३ ।२।२२ | पृ. १५) इति संयुत्तनिकायवचनमपि व्याख्यातम्, स्पर्शपदस्याऽऽसक्तिपरत्वादिति नानातन्त्रतात्पर्यपर्यालोचनकुशलैर्विभावनीयं तत्त्वमेतत् ।। २४ / १२ ।। પ્રવૃત્તિ હોય છે. અહીં પૂર્વે બળવાનપણે બંધાયેલા કર્મો રવાના થવા માટે ઉદયમાં આવેલા હોય છે, નહિ કે કાન્તાદૃષ્ટિમાં રહેલા યોગી પુરુષોને બાંધવા માટે. કાન્તાદૃષ્ટિવાળા યોગીની અપૂર્વ આત્મજાગૃતિના બળે કેવળ કર્મનિર્જરા થાય છે. આ રીતે તે યોગી કર્મને ખપાવી મોક્ષે પહોંચે છે.(૨૪/૧૧-૧૨) * ભોગમાં સુખસાધનતાની બુદ્ધિ ડૂબાડે
ગાથાર્થ :- ભોગમાં તત્ત્વની બુદ્ધિવાળો તો ભવસાગરનો પાર પામતો નથી. મૃગજળમાં સત્ય
For Private & Personal Use Only
www.jainelibrary.org
=
=
Jain Education International