________________
• आक्षेपकज्ञानमाहात्म्यम् •
१६४५ अस्यामिति । अस्यां कान्तायां 'कायचेष्टाया अन्यपरत्वेऽपि श्रुतधर्मे = आगमे मनोयोगात् = नित्यं मनःसम्बन्धात् आक्षेपकज्ञानाद् = नित्यप्रतिबन्धरूपचित्ताऽऽक्षेपकारिज्ञानात् न भोगा इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति, चेष्टायाः = प्रवृत्तेः शुद्धेः (=चेष्टाशुद्धेः), मनोनैर्मल्यात् । यथोदितं हरिभद्रसूरिभिर्योगदृष्टिसमुच्चये ।।१०।।
धर्मेकाग्रमनस्त्वफलमाह- ‘अस्यामि'ति । अन्यपरत्वेऽपि = जीवननिर्वाहादिसाधनीभूतभिक्षाऽटनादिपरायणत्वेऽपि आगमे = सर्वज्ञोदिततन्त्रे नित्यं = सदैव मनःसम्बन्धात् = अन्तःकरणोपसर्पणाद् आक्षेपकज्ञानात् नित्यप्रतिबन्धरूपचित्ताऽऽक्षेपकारिज्ञानात् = निजविशुद्धकेवलनिर्विकल्पाऽसङ्गसाक्षिमात्रध्रुवचैतन्यस्वरूपगोचरध्रुवपक्षपातस्वरूपो योऽन्तःकरणाऽऽक्षेपः तदुपधायकस्याऽपूर्वाऽऽत्मजागरणस्वरूपस्य सम्यग्ज्ञानस्य प्रभावात् न = नैव इन्द्रियार्थसम्बन्धाः श्रोत्राद्यनुयोगिक-शब्दादिप्रतियोगिकसन्निकर्षाः तज्जन्यसुखानुभवा वा भवहेतवः = भवान्तरोपार्जनहेतवो भवन्ति, प्रवृत्तेः शुद्धेः । तदुक्तं ओघनिर्युक्तो → अणुमित्तो वि न कस्सइ, बंधो परवत्थुपच्चओ भणिओ (ओ.नि.५७) इति पूर्वमपि(भाग२ पृ.५३४) दर्शितम् । समयसारेऽपि → ण य वत्थुदो हु बंधो अज्झवसाणेण बंधोत्थि - (स.सा. २६५) इत्युक्तम् । न च शब्दादिविषयेन्द्रियसन्निकर्षे कथं प्रवृत्तेः शुद्धिरिति शङ्कनीयम्, →
धी धी मज्झ अणज्जस्स इंदियत्थेसु संपउत्तस्स । परमत्थवेरिएसु वि दाराइसु गाढरत्तस्स ।। इइ भावणासमेओ विरत्तकामो पयट्टमाणो । कम्मवसा, विरएसुं बहुमाणपरो सदोसन्नू ।।
- (पं.लि.२६-२७) इति पञ्चलिङ्गिप्रकरणदर्शितरीत्या मनोनैर्मल्यात् = विषयतुच्छत्वस्वकीयदोषविभावनादिगर्भ-शुद्धचिन्मात्रस्वरूपगोचरप्रतिबन्धाऽविनाभाविचित्तविशुद्धेः हेतोः प्रवृत्तिशुद्धिरस्यां विज्ञेया, अभिसन्धिभेदादनुष्ठानभेदसिद्धेः प्राक् (द्वा.द्वा.२३/२२ पृ.१५८५) दर्शितत्वात् । तदुक्तं योगसारप्राभृतेऽपि → शुद्धज्ञाने मनो नित्यं कायेऽन्यत्र विचेष्टिते । यस्य तस्याऽऽग्रहाऽभावान्न भोगा भवहेतवः ।। - (यो.सा.प्रा.९/२०) इति । अध्यात्मसारे अपि → बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् । निवृत्तिरिव नो दुष्टा योगाऽनुभवशालिनाम् ।। विषयाणां ततो बन्धजनने नियमोऽस्ति न । अज्ञानिनां ततो बन्धो ज्ञानिनां तु न कर्हिचित् ।। ते ११ भी वगेरे थामi muvi माशे.) (२४/१०)
ક કાન્તાદેષ્ટિમાં ભોગ પણ ભવકરણ ન બને છે ટીકાર્થ - પ્રસ્તુત કાન્તાદૃષ્ટિમાં કાયિક પ્રવૃત્તિ અન્યત્ર જોડાયેલ હોય તો પણ તે યોગીનું મન હંમેશા કૃતધર્મમાં જ જોડાયેલું હોય છે. તેથી અસંગ આનંદમય નિજ સ્વભાવમાં જ કાયમ ખેંચી રાખેજોડી રાખે તેવી જ્ઞાનદશા પ્રગટે છે. યોગતંત્રની પરિભાષા મુજબ આ આક્ષેપક જ્ઞાન કહેવાય છે. તેના કારણે કર્મજન્ય ઈન્દ્રિયોના પોત-પોતાના વિષયો સાથે સંબંધ થવા સ્વરૂપ ભોગસુખો પણ તે યોગી માટે સંસારનું કારણ બનતા નથી. તેના અંતઃકરણની નિર્મળતાના લીધે તેની પ્રવૃત્તિ શુદ્ધ જ હોય છે. જેમ કે શ્રીહરિભદ્રસૂરિજી મહારાજે યોગદૃષ્ટિસમુચ્ચય નામના ગ્રંથમાં જણાવેલ છે કે આ વાત ११ भी प३ या२ थामi guid.] (२४/१०) १. हस्तादर्श 'कायाचे...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org