________________
• एकतरनयदेशनाऽपि सम्मता •
१६०७
चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ।। २९ ।। चित्रेति । वा = अथवा तत्तन्नयैः = द्रव्याऽऽस्तिकादिभिः कालादियोगतो = 'दुःषमादियोगमाश्रित्य यन्मूला यद्वचनाऽनुसारिणी चित्रा नानारूपा देशना कपिलादीनामृषीणां, तस्य सर्वज्ञस्य प्रतिक्षेपः (= तत्प्रतिक्षेपः) भावं तत्तद्देशनानयाऽभिप्रायं अजानतोऽयुक्तः, आर्याऽपवादस्याऽनाभोगजस्याऽपि महापापनिबन्धनत्वात् । तदुक्तं
“ यद्वा तत्तन्नयाऽपेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ||
=
=
ननु तत्त्वतः कपिलादीनामसर्वज्ञत्वात्कथमत्र तद्देशना समर्थनं युज्यते ? इत्याशङ्कायां प्रकारान्तरमाह- 'चित्रे 'ति । यद्वा सर्वज्ञकृतायां सद्धर्मदेशनायां प्रतिभासमानं भेदं प्रकारद्वितयेन समर्थ्य अत्रैव ग्रन्थकारः प्रकारान्तरमाह- 'चित्रे 'ति । यद्वचनाऽनुसारिणी इत्यत्र यत्पदेन सर्वज्ञग्रहः । ततः कपिलादिदेशनाप्रतिक्षेपे सर्वज्ञस्य एव प्रतिक्षेपः = अपलाप आपद्यते । न च स युज्यते । अतः सर्वज्ञोपदिष्टमूलागमैकदेशरूपायाः कपिलादिदेशनाया मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कर्तव्या गुणग्रहणरसिकैः । तदुक्तं षोडशके तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्याऽपि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ।। ← (षो. १६ / १३ ) इति । ' तत्र = सर्वज्ञोक्तमूलागमैकदेशरूपायां कपिलादिदेशनायाम्' । अत एव महावीरगीतायां कर्तव्या न कदा निन्दा परस्परविधर्मिणाम् । अङ्गीकार्यं सदा सत्यं सत्यव्याख्याविचारतः ।। ← ( म.गी. ५ / २६ ) इत्युक्तम् । अगृहीतग्राहणपरतया श्रोतृविशेषापेक्षयैकतरनयदेशनाऽपि सङ्गच्छत एवान्वयव्यतिरेकशालिवस्तुवेदिनाम् । अत एव सम्मतितर्फे पुरिसज्जायं तु पडुच्च जाणओ पण्णवेज्ज अण्णयरं । परिकम्मणाणिमित्तं दाएहि सो विसेसं पि ।। ← (सं.त. १/ ५४) इत्युक्तमिति प्रागुक्तं(पृ.१२३) अत्रानुसन्धेयम् । स्वरूपतो नयदेशनाऽपीयं परिणामतः प्रमाणदेशनैवेति प्रागुक्तरीत्या ( द्वाद्वा.२/२७ भाग-१, पृ. १२५ ) योजनीयमत्रेति दिक् ।
प्रकृते योगदृष्टिसमुच्चयसंवादमाह कारिकापञ्चकेन ' यद्वे'त्यादि । तद्वृत्तिः → यद्वा तत्तन्नयापेक्षा द्रव्यास्तिकादीनधिकृत्य, तत्तत्कालादियोगतः = दुःषमादियोगात् ऋषिभ्यः कपिलादिभ्य एव देशना જુદા-જુદા પ્રકારના શ્રોતાને પોતાની યોગ્યતા મુજબ જુદા-જુદા સ્વરૂપે ભાસે એટલા માત્રથી કાંઈ તીર્થંકર સર્વજ્ઞ ભગવંતમાં વિલક્ષણતા સિદ્ધ થઈ ન શકે. (૨૩/૨૮)
બાહ્ય દૃષ્ટિએ સર્વજ્ઞની દેશનામાં ભેદ કેમ છે ? તેના બે સમાધાન ૨૮ મી ગાથામાં આપ્યા બાદ ૨૯ મી ગાથામાં ત્રીજા પ્રકારે સમાધાનને ગ્રંથકારશ્રી જણાવે છે.
* કપિલાદિની દેશના સર્વજ્ઞમૂલક
गाथार्थ ::- અથવા કલિકાલ વગેરેના યોગે અલગ-અલગ નામથી સર્વજ્ઞવચનમૂલક ધર્મદેશના વિવિધ પ્રકારની થઈ છે. તેનો ભાવ નહિ જાણનાર માણસ સર્વજ્ઞનો અપલાપ કરે તે યોગ્ય નથી.(૨૩/૨૯) ટીકાર્થ :- અથવા દુઃષમ કલિકાલ વગેરેના યોગે કરીને દ્રવ્યાસ્તિક વગેરે નય દ્વારા સર્વજ્ઞવચનને અનુસરનારી કપિલ વગેરે મહર્ષિઓની ધર્મદેશના વિવિધ પ્રકારની થઈ ગઈછે. માટે તથાવિધ દેશનાની પાછળ રહેલા વિવિધ નયોનો અભિપ્રાય ન જાણનાર માણસ સર્વજ્ઞનો અપલાપ કરે તે યોગ્ય નથી. કારણ કે અજાણતા
१. हस्तादर्शे 'दुःखमा...' इति पाठः ।
Jain Education International
=
=
For Private & Personal Use Only
www.jainelibrary.org