________________
१५०७
• देशपरीक्षादिविचारः • (यो.सू.२-५०) इति । बाह्याभ्यन्तरविषयौ' द्वादशान्त-हृदयनाभिचक्रादिरूपा'वपर्यालोच्यैव सहसा त्रिविधोऽयं प्राणायामो देशेन कालेन सङ्ख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशेनोपलक्षितो यथा-नासाद्वादशान्तादौ । कालेनोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः । सङ्ख्ययोपलक्षितो यथा इयतो वारान् कृत एतावद्भिः श्वास-प्रश्वासैः प्रथम उद्घातो भवतीति । एतज्ज्ञानाय सङ्ख्याग्रहणमुपात्तम् । उद्घातो नाम नाभिमूलात्प्रेरितस्य वायोः शिरसि अभिहननम् ← ( रा.मा. २/५०) इति । मण्डलब्राह्मणोपनिषदि तु पूरक-कुम्भक - रेचकैः षोडश चतुःषष्टि- द्वात्रिंशत्सङ्ख्यया यथाक्रमं प्राणायामः ← (मं.ब्रा.१/४ ) इत्येवं तत्स्वरूपमुक्तम् । अमृतनादोपनिषदि तु सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।। ← ( अ.ना. ११) इत्युक्तम् । आदिपुराणे जिनसेनाचार्यस्तु प्राणायामो भवेद् योगनिग्रहः शुभभावनः ← ( आ. पु. २१/२२७ ) इत्याह । योगसुधाकरे सदाशिवेन्द्रस्तु रेचको बाह्यवृत्तिः, पूरक आभ्यन्तरवृत्तिः, कुम्भकः स्तम्भवृत्तिः । तत्रैकैको देशादिभिः परीक्षणीयः । तद्यथा स्वभावसिद्धे रेचके हृदयान्निर्गत्य नासाग्रसम्मुखे द्वादशाङ्गुलपर्यन्तं श्वासः समाप्यते । अभ्यासेन तु क्रमेण नाभेराधाराद् वा निर्गत्य चतुर्विंशत्यङ्गुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा समाप्यते । तत्र च रेचकप्रयत्नाऽतिशये सति नाभ्यादिप्रदेशक्षोभेण तन्निश्चेतुं शक्यम् । बहिस्तु सूक्ष्मं तूलं धृत्वा तच्चालनेन निश्चेतव्यम् । सेयं देशपरीक्षा । रेचककाले प्राणस्याऽऽवृत्तयो दश विंशतिः त्रिंशद् इत्यादिभिः कालपरीक्षा । अस्मिन् मासे प्रतिदिनं दश रेचका आगामिमासे विंशतिः उत्तरमासे त्रिंशदित्यादिभिः सङ्ख्यापरीक्षा । एवं पूरकेऽपि योजनीयम् । यद्यपि कुम्भके देशव्याप्तिविशेषो नाऽवगम्यते तथापि कालसङ्ख्याव्याप्तिरवगम्यत एव । यथा घनीभूतः तूलपिण्डः प्रसार्यमाणो दीर्घो विरलतया सूक्ष्मश्च भवति तथा प्राणोऽपि देश-काल- सङ्ख्याभिरभ्यस्यमानो दीर्घो दुर्लक्षतया सूक्ष्मच सम्पद्यते ← ( यो. सुधा. २/५०) इत्याचष्टे ।
यद्यपि सङ्ख्याभिरपि कालनियम एव क्रियते तथापि प्रकारभेदाद् भेद इति । यत्र हि शङ्खध्वन्यादिना कालनियमः क्रियते स कालेन परिदृष्टः यत्र च मात्रा - सङ्ख्याभिः कालनियमः क्रियते स सङ्ख्याभिः परिदृष्ट इति (यो.सू. २/५० वा.) इति तु योगवार्तिके विज्ञानभिक्षुः ।
-
मात्रास्वरूपञ्च योगतत्त्वोपनिषदि अङ्गुलिस्फोटनं कुर्यात् सा मात्रा परिगीयते ← (यो.त. ४०) इत्येवं, मार्कण्डेयपुराणे च निमेषोन्मेषणे मात्रा तालो लघ्वक्षरं तथा । प्राणायामस्य सङ्ख्यार्थं स्मृतो द्वादशमात्रिकः ।। ← ( मा. पु. ३९ / १५ ) इत्येवमावेदितमित्यवधेयम् । मात्रोत्कर्षे प्राणायामोत्कर्षो भवति । तदुक्तं कूर्मपुराणे मात्राद्वादशको मन्दः चतुर्विंशतिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोऽन्तिमः ।। ← ( कू.पु.उ. ११/३२) इति ।
Jain Education International
-
બહારના ભાગમાં નાકથી નીચે બાર આંગળ સુધી જે વાયુ હોય તે બાહ્ય વિષયભૂત કહેવાય. તેમ જ હૃદયભાગ કે નાભિચક્ર વગેરે સુધી જે પ્રાણવાયુ હોય તે અભ્યન્તર વિષયભૂત કહેવાય. આ બાહ્ય-અત્યંતર વાયુના એટલે કે રેચક અને પૂરક પ્રાણાયામના સ્થાનનો વિચાર કર્યા વિના જ અચાનક જ એકીસાથે બન્ને વાયુનું સ્તંભન કરવાની વૃત્તિથી નિષ્પદ્યમાન ચોથો પ્રાણાયામ સમજવો. જેમ તપેલા १. मुद्रितप्रती ...विषयो...' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ... रूप एव पर्या...'
इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org