________________
• तारायां सम्यक्सङ्कल्पसमवतारः .
१४९३ सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ।।१०।।
प्रकृते → तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नाऽसौ मुनिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ।। 6 (चा.रा.नी.२ ५४) इति चाणक्यराजनीतिशास्त्रोक्तिरपि शब्दलेशभेदेन गरुडपुराणाद्(१०१/५१) महाभारताच्च(म.भा.वन.३१३/११७) यथागममनुयोज्या समवतारकुशलैः । → अनन्तशास्त्रं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः। यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाऽम्बुमिश्रम् ।। (नरा.११९) इति नराभरणवचनमप्यत्राऽनुयोज्यम् । अस्याञ्च दृष्टौ व्यवस्थितः स्वाभिमतदेव-गुर्वादिषु महतीं श्रद्धां यथावसरमुपदर्शयति । परं 'मदीयं देव-गुरु-शास्त्रादिकमेव सत्यं, अन्यत्तु मिथ्यैवेति न कदापि मन्यते, न वा जातु तथा वदति । इत्थमेव सत्यरक्षोपपत्तेः । ___ सम्मतञ्चेदं बौद्धानामपि । तदुक्तं भारद्वाजं प्रति बुद्धेन मज्झिमनिकाये चङ्कीसूत्रे सत्यरक्षोपायोपदर्शनावसरे → सद्धा चेपि, भारद्वाज! पुरिसस्स होति; ‘एवं मे सद्धा'ति- इति वदं सच्चं अनुरक्खति, नत्वेव ताव एकंसेन निटुं गच्छन्ति ‘इदमेव सच्चं मोघमञन्ति (म.नि.२ ।४।५।४२९,पृ.३८९) इति यथागममत्रानुयोज्यं योगदर्शनविशारदैः । इत्थञ्चात्र नैष्काऽपराभिधाननिष्कामतादिगोचरः सम्यक्सङ्कल्पोऽपि बुद्धोक्ताऽष्टाङ्गिकमार्गगतोऽनाविल एव । तदुक्तं दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे → कतमो च, भिक्खवे, सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो (१), अब्यापादसङ्कप्पो (२), अविहिंसासङ्कप्पो (३) । अयं वुच्चति, भिक्खवे, सम्मासङ्कप्पो ( (दी.नि.२ ।९।४०२,म.नि.भाग-१/१/१०/१३५-पृ.९०,३/४/११/३७५-पृ.३००) इति। अयञ्च साश्रवो बोध्यो न तु निराश्रवः । तदुक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे → नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो- अयं भिक्खवे ! सम्मासङ्कप्पो सासवो पुञ्जभागियो उपधिवेपक्को - (म.नि. ३।२।७।१३७) इति। → कामेहि निक्खन्तो सङ्कप्पो उ नेक्खम्मसङ्कप्पो (म.नि.३/४/११/३७५ वृ.) इति मज्झिमनिकायवृत्तौ धर्मपालः । 'पुञभागियो = पुण्यभाक्', 'उपधिविपक्को = उपध्यभिधानविपाकशाली' । अग्रेतनदृष्टिष्वयं विशुद्धतरः सम्पद्यते । योगदृष्टिसमुच्चयादिपरिभाषाऽनुसारेण प्रकृते इच्छादिभेदेन सम्यक्सङ्कल्पोऽप्यनेकधा भिद्यते इति विभावनीयम्। शिष्टं स्पष्टम् । यद्वा → सन्तं येव खो पन परं लोकं ‘अत्थि परो लोको'ति सङ्कप्पेति, स्वास्स होति सम्मासङ्कप्पो - (म.नि.२ ।१ ।१०।९६ पृ. ७३) इत्येवं मज्झिमनिकाये अर्पणकसूत्रे दर्शितः सम्यक्सङ्कल्पः तारायां दृष्टौ यथागममनुयोज्यः स्वपरतन्त्रैदम्पर्याऽर्थविशारदैः। गता तारा दृष्टिः ।।२२/९ ।।
વિશેષાર્થ :- કેવળ પોતાની બુદ્ધિથી જે વિચારેલું હોય તેમાં ઘણી વાર વિસંવાદ = શાસ્ત્ર સાથે તથા પરિણામ સાથે વિરોધ આવતો દેખાવાથી પોતાની પ્રજ્ઞામાં બીજી દૃષ્ટિવાળા જીવને વિશ્વાસ દૃઢપણે બેસતો નથી. તે પોતાની પ્રજ્ઞાને છીછરી માને છે, ટૂંકી માને છે, અલ્પ માને છે. તથા શાસ્ત્રો સાગર જેવા મહાકાય છે. તેથી પોતાની પ્રજ્ઞા દ્વારા શાસ્ત્રનો પાર પામવો અશક્ય જણાવાથી “શું સાચું ? અને શું ખોટું ? સારું શું? ખરાબ શું ?” એ બાબતમાં શિષ્ટ પુરુષોએ આચરેલું પ્રમાણભૂત માનીને શક્તિ છુપાવ્યા વિના તે મુજબ વર્તવાનો સંકલ્પ તારા દૃષ્ટિમાં વર્તતો જીવ કરે છે. (૨૨૯)
જ બલા દૃષ્ટિનું વિવેચન છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org