SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ९८४ • अज्ञानबाहुल्ये दोषोच्छेदाऽसम्भवः • द्वात्रिंशिका-१४/२३ तृतीयमिति । शान्तवृत्त्या = कषायादिविकारनिरोधरूपया तत्त्वसंवेदनाऽनुगं = जीवादितत्त्वसम्यक्परिज्ञानाऽनुगतं अदो = यमाद्येव तृतीयं = अनुबन्धशुद्धं कर्म । आद्याद् = विषयशुद्धानुष्ठानात् तमोभूम्ना आत्मघातादिनिबन्धनाऽज्ञानबाहुल्येन दोषहानिः' = मोक्षलाभबाधकपरिहाणिः न भवति । यत आह- “आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः” (योगबिन्दु २१५) इति । परे पुनराचार्याः प्रचक्षते उचितं = दोषविगमाऽनुकूलजात्यादि-कुलादिगुणयुक्तं जन्म ततो भवति। एकान्तनिरवद्ये मोक्षे स्वरूपतोऽतीव सावद्यस्य कर्मणस्तस्याऽहेतुत्वेऽपि मुक्तीच्छायाः कथञ्चित् सारूप्येण तद्धेतुत्वात् । ___ अनुबन्धशुद्धमनुष्ठानं निरूपयति- 'तृतीयमिति । कषायादिविकारनिरोधरूपया शान्तवृत्त्या । यः क्रोधविकारः षोडशके → सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिलं क्रोधकण्डूतेः ।। 6 (षो.४/१३) इत्येवमावेदितः, यश्च कषायसामान्यविकारः → कसायमूढो कसायोदया हिताहितं इहपरलोगेसु कज्जमकज्जं वा न याणति - (नि.भा.३७०० भा.३ पृ.२६७) इत्येवं निशीथचूर्णो दर्शितः सोऽत्र ग्राह्यः । आदिपदेनाऽतृप्त्यादिरूपो विषयविकारो ग्राह्यः, यथोक्तं षोडशके → गम्याऽगम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् ।। 6 (षो.४/१०) इति । निरुक्तकषायविषयविकृतिपरिहारलक्षणया प्रशान्तवृत्त्या जीवादितत्त्वसम्यक्परिज्ञानानुगतं औत्सुक्यवर्जितं यमायेव अनुबन्धशुद्धं कर्म भवति । यथोक्तं योगबिन्दौ → तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् । प्रशान्तवृत्त्या सर्वत्र दृढमौत्सुक्यवर्जितम् ।। - (यो.बि.२१४) इति । त्रिष्वप्यधिकृतकर्मसु मोक्षोद्देशादेव शुद्धिरवसेया । तदुक्तं वैराग्यकल्पलतायां → धर्मस्य चेष्टा विषय-स्वरूपाऽनुबन्धनिष्ठा त्रिविधा विशुद्धिः । सर्वाऽपि मोक्षार्थमेक्ष्य साक्षात्-परम्पराहेतुतया शुभा सा ।। 6 (वै.क.ल.१/४७) इति ध्येयम् । विषयशुद्धानुष्ठानान्न दोषहानिरित्यत्र योगबिन्दुसंवादमाह- 'आद्यान्ने'ति (यो.बि.२१५) स्पष्टार्थमेतत् । अव मतान्तरमाह- 'परे' इति । तस्य = एकान्तनिरवद्यापवर्गस्य अहेतुत्वेऽपि मुक्तीच्छायाः कथञ्चित् = निरवद्योद्देश्यकत्वप्रकारतः सारूप्येण = मोक्षसदृशत्वेन तद्धेतुत्वात् = मोक्षनिमित्तत्वात् ટીકાર્થ - કષાય આદિ વિકૃતિઓને અટકાવવા સ્વરૂપ પ્રશાંત ચિત્તવૃત્તિથી જે યમ-નિયમ આદિ આરાધના જીવાદિ તત્ત્વના સમ્યફ જ્ઞાનથી ગર્ભિત રીતે થાય છે તે અનુબંધશુદ્ધ અનુષ્ઠાન સમજવું. મોક્ષની પ્રાપ્તિમાં નડતરરૂપ થતા દોષોનો નાશ પ્રથમ વિષયશુદ્ધ અનુષ્ઠાન દ્વારા નથી થતો. કારણ કે આત્મહત્યા વગેરેનું કારણ બને તેવા અજ્ઞાનની બહુલતા-મુખ્યતા તે આરાધનામાં છવાયેલી છે. શ્રી હરિભદ્રસૂરિ મહારાજે પણ યોગબિન્દુ ગ્રંથમાં જણાવેલ છે કે “વિષયશુદ્ધ અનુષ્ઠાનથી દોષનો ઉચ્છેદ થતો નથી. કારણ કે તેમાં અજ્ઞાનની મુખ્યતા વણાયેલી છે.” અન્ય યોગાચાર્યો એમ કહે છે કે- મોક્ષપ્રાપ્તિમાં બાધક દોષોનો નાશ કરવાને અનુકૂળ એવી જાતિ-કુળ વગેરે ગુણોથી સંપન્ન એવો જન્મ વિષયશુદ્ધ અનુષ્ઠાન દ્વારા પ્રાપ્ત થાય છે. તેઓનો આશય એવો છે કે મોક્ષ એકાંતે નિર્દોષ છે. તેથી આત્મઘાત વગેરે અત્યંત સાવધ પ્રવૃત્તિ મોક્ષનો હેતુ બની १. हस्तादर्श ‘दोषाऽहानिः' इत्यशुद्धः पाठः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy