________________
• प्रणिधानैकाग्रतायाः मुख्ययोगसाधनता •
१२३९ प्रवृत्तिजः क्लमः खेदस्तत्र' दाढय न चेतसः। मुख्यो हेतुरदश्चाऽत्र कृषिकर्मणि वारिवत् ।।१३॥
प्रवृत्तिज इति । प्रवृत्तिजः = क्रियाजनितः क्लमो = मानसदुःखाऽनुबन्धी प्रयासः खेदः। तत्र = तस्मिन् सति दाय प्रणिधानैकाग्रत्वलक्षणं चेतसो न भवति । अदश्च = प्रणिधानैकाग्र्यं च अत्र = योगकर्मणि कृषिकर्मणि = कृषिसाध्यधान्यनिष्पत्तौ वारिवत् मुख्यो = असाधारणो हेतुः । तदुक्तं- “खेदे दााऽभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि
यथोद्देशं निर्देश इति न्यायेन खेददोषमाह- 'प्रवृत्तिज' इति । क्रियाजनितः = पूर्वक्रियाप्रवृत्तिसमुत्पादितः मानसदुःखाऽनुबन्धी = मानसिकपीडाऽऽवाहकः सन् उत्तरक्रियाप्रवृत्तिप्रतिबन्धकः प्रयासः = शारीरिकपरिश्रमः वक्ष्यमाणरीत्या (द्वा.द्वा.२१/१ भाग-५ पृ.१४१७) व्याकुलतालक्षणः खेद उच्यते। तदुक्तं षोडशकवृत्तौ यशोभद्रसूरिभिः → खेदः = श्रान्तता क्रियासु अप्रवृत्तिहेतुः, पथि परिश्रान्तवद् 6 (षो.१४/३ वृ.)। तदुक्तं श्रीहेमचन्द्रसूरिभिरपि अलकारचूडामणी काव्यानुशासनवृत्तौ 'श्रमः = खेदः' (का.अनु. २/१९/पृ.१२७) इति । यत्तु योगदीपिकायां → खेदः = पथि परिश्रान्तवत् पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् 6 (षोड.१४/३ यो.दी.) इत्युक्तं तत्तु कार्ये कारणोपचारेणाऽवसेयम् ।
तस्मिन् खेदे सति चेतसः ध्यानादिपरायणस्य प्रणिधानैकाग्रत्वलक्षणं = तत्कालीनकर्तव्यतागोचराऽविचलितस्वभावोपयोगैकतानताऽऽत्मकं दाढ्यं न = नैव भवति, प्रवृत्तिजन्यस्य मानसदुःखाऽनुबन्धिनः कायिकश्रमस्य तद्विघटकत्वात् । न ह्यतिश्रान्ते शरीरे सामान्यतः सत्प्रवृत्तिसिद्ध्यौपयिकं दाढ्यं सम्भवति। अत एव तस्य त्याज्यता । तदुक्तं वाल्मीकिरामायणे → शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ? - (वा.रामा.अरण्यकाण्ड-५०/१९) इति । न चैवं खेदस्य कायिकपरिश्रमात्मकत्वे चित्तदोषता कथं स्यादिति शङ्कनीयम्, चित्तसङ्क्षोभकारित्वेन तथात्वोपपत्तेः । प्रणिधानैकाग्र्यञ्च योगकर्मणि = ध्यानादियोगप्रवृत्तौ असाधारणः = अन्तरङ्गः साधकतमो वा हेतुः।
तदुक्तं षोडशके 'खेद' इति । तस्य योगदीपिकाव्याख्या एवम् → खेदे चित्तदोषे सति दाढाभावात् = क्रियासमाप्तिव्यापिस्थैर्याऽभावात् न प्रणिधानं = ऐकाग्र्यं इह = प्रस्तुते योगे सुन्दरं = દૃષ્ટિમાં ષોડશક ગ્રંથાનુસાર ઉપર જણાવ્યા મુજબના એક-એક ચિત્તદોષનો ક્રમસર નાશ થતો જાય છે. માટે દોષનો ક્રમ ષોડશક મુજબ લેવાની જરૂરી છે. તેમ છતાં આ ગ્રંથમાં છંદનો ભંગ ન થાય તે રીતે ચિત્તદોષનો નિર્દેશ કરેલ છે. આ બાબત ધ્યાનમાં રાખવી. (૧૮/૧૨)
શ ખેદ દોષનું નિરૂપણ છે ગાથાર્થ :- પ્રવૃતિજન્ય કુલમ ખેદ જાણવો. તે હોય ત્યારે ચિત્તમાં દઢતા નથી હોતી. તે દઢતા જ અહીં મુખ્ય હેતુ છે. ખેતીમાં પાણીની મુખ્યતાની જેમ આ વાત સમજવી. (૧૮/૧૩)
ટીકાર્થ:- ક્રિયાથી ઉત્પન્ન થયેલો માનસિક દુઃખને લાવનારો પ્રયાસ ક્લમ કહેવાય છે. તેને અહીં ખેદ તરીકે જાણવો. તે ખેદ હોય ત્યારે પ્રણિધાનની એકાગ્રતા સ્વરૂપ ચિત્ત-દઢતા નથી હોતી. ખેતીની ક્રિયામાં જેમ પાણી અસાધારણ હેતુ છે તેમ યોગસાધનામાં માનસિક પ્રણિધાનની એકાગ્રતા અજોડ કારણ છે. તેથી ષોડશક ગ્રન્થમાં જણાવેલ છે કે “ખેદ હોય ત્યારે ચિત્તદઢતા ન રહેવાથી યોગસાધનામાં સુંદર १. मुद्रितप्रतौ हस्तादर्श चात्र 'ततो' इति पाठ किन्तु व्याख्यानुसारेणात्र 'तत्र' इति पाठः सम्यगाभाति । २. हस्तादर्श 'अदद' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org