SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ १२०२ देश-कालाद्यनुसारेण दैव - पुरुषकारयोः बलाबलत्वम् • द्वात्रिंशिका - १७/२६ प्रायो = बाहुल्येन अत्र = अनयोर्मध्ये चरमावर्ते = अन्त्यपुद्गलपरावर्ते यत्नेन दैवं बाध्यते । तथाविधसङ्क्लेशावस्थायां नन्दिषेणादीनामिव कदाचिद्व्यत्ययोऽपि स्यादिति प्रायोग्रहणम् ।। २६ ।। नीयम् । न च दार्वेव प्रतिमाऽऽक्षेपकमिति न्याय्यम्, सर्वत्र तत्प्राप्तेः, योग्यस्यापि वाऽयोग्यत्वप्रसङ्गात्, तभेदस्य च नैश्चयिकस्याऽलौकिकत्वात् । लौकिकत्वेऽपि तथाविधयोग्यताभेदात्, तथाविधयोग्यतातुल्यं च कर्मणोऽनियतस्वभावत्वम् । किञ्च - कर्मापि पुरुषकाराऽऽक्षेपकं तत्स्वभावतयैव, एवमेव पुरुषस्य तदुपक्रामणस्वभावतायां को दोषः ? पारम्पर्यतस्तथाभावस्योभयत्र तुल्यत्वात् । अत इह उभयतथाभावो न्याय्यः, कर्तृ-कर्मणोरुभयतथाभावतायां सर्वत्रेष्टफलसिद्धेः, अन्यथाऽयोगादतिप्रसङ्गादिति । एवमुभयजेऽपि तत्त्वे तदुदग्रतादिरूपतत्प्राधान्यादिनिबन्धना कर्म - पुरुषकारव्यवस्थेति सूक्ष्मधियाऽऽलोचनीयम्, ← (यो.श.४९ वृत्ति) इति । एतेन पुरुषकारमनुवर्तते दैवम् (चा. सू. ९८ ) दैवं विनाऽतिप्रयत्नं करोति यत् तद् विफलम् ← (चा. सू. ९९ ) इति चाणक्यसूत्रवचने अपि व्याख्याते । = स्व कदा कस्य बलवत्त्वं तदाह - बाहुल्येन अनयोः दैव - पुरुषकारयोः मध्ये अन्त्यपुद्गलपरावर्ते मोक्षाss सन्नभावतो यत्नेन समानाधिकरणाऽन्तरङ्गशुद्धपुरुषार्थेन दैवं = मोहनीयादिकर्म बाध्य फलजनने प्रतिस्खल्यते । देश - कालाद्यनुकूलोपायाऽनुपायाभ्यां दैवबाधाऽबाधौ द्रष्टव्यावत्र । यथोक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च संपत्ती य विपत्ती य होज्ज कज्जेसु कारगं पप्प । अणुवायतो विवत्ती संपत्ती कालुवाएहिं ।। ← (बृ. क. भा. ९४९ नि.भा.४८०८) इति । एतेन पसुबन्धा सव्ववेया ट्ठे च पावकम्णा । न तं तायन्ति दुस्सीलं, कम्माणि बलवन्ति हि ।। ← ( उत्त. २५/३० ) इति उत्तराध्ययनसूत्रोक्तिरपि व्याख्याता द्रष्टव्या । अत एव चरमावर्त्ते धर्मोद्यमोपदेशस्य साफल्यं समाम्नातम् । एतेन उत्तिट्ठे, न पमज्जेय्य, धम्मं सुचरितं चरे ← (ध.प. १३/२) इति धम्मपदवचनमपि व्याख्यातम् । भास्करपतनस्थानीयायां तथाविधसङ्क्लेशाऽवस्थायां नन्दिषेणादीनामिव कदाचिद् व्यत्ययोऽपि पूर्वोक्तविधिविपर्यासोऽपि स्यादिति प्रायोग्रहणं मूलकारिकायाम् । अत एव → तमः पतनकाले हि प्रभवत्यपि भास्वतः ← (ह. वं. पु. १४/४०) इति हरिवंशपुराणोक्तिरप्यत्र लब्धप्रसरा । अयमेवार्थः योगबिन्दौ → एवञ्च चरमावर्ते परमार्थेन बाध्यते । दैवं पुरुषकारेण प्रायशो व्यत्ययोऽन्यदा ।। ← (यो.बि. ३३७) इत्येवमुक्तः । अचरमावर्ते तु कर्मप्राबल्यमवसेयम् । तदुक्तं ज्ञानसारे असावचरमावर्ते धर्मं हरति पश्यतः । चरमावर्ति - साधोस्तु छलमन्विष्य हृष्यति ।। ← (ज्ञा.सा. २१ / ७) इति । इदञ्च कालप्राधान्यमपेक्ष्योक्तम् । भावप्राधान्यविवक्षायान्तु प्रबलधृत्यादिसद्भावे दैवं पुरुषकाराऽधीनम्, अन्यथा तु दैवं बलवदिति ज्ञेयम् । तदुक्तं कम्मवसा खलु जीवा जीववसाई कहिंचि कम्माई ← (बृ.क.भा.२६९०) इति बृहत्कल्पभाष्यस्य वृत्तौ कर्मवशाः खलु प्रायेणाऽमी संसारिणो जीवाः । परं कुत्रचित् प्रबलधृति = · = તેમ છતાં ભાગ્ય અને ઉદ્યમની વચ્ચે ચરમ પુદ્ગલપરાવર્ત કાળમાં પ્રાયઃ પ્રયત્ન દ્વારા કર્મ બાધિત થાય છે. તેવા પ્રકારના અત્યંત સંકલેશની દશામાં નંદિષણ વગેરેની જેમ ચરમાવર્તકાળમાં કર્મ દ્વારા પુરુષાર્થ બાધિત થાય તેવું પણ સંભવી શકે. આવું જણાવવા માટે ‘પ્રાયઃ’ શબ્દ ગ્રહણ કરેલ છે. (૧૭/૨૬) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy