________________
• भाग्यपरिज्ञानोपायाः .
११८९ अनियतभावं(वकं), फलजनननियतिमतोऽबाध्यत्वात् । प्रयत्नेन बाध्यं = निवर्तनीयं 'सेव = प्रतिमायोग्यतेवर प्रतिमयेत्यप्याहुः आचार्याः । अव्यवस्थितपरिणामकम् । अत एव तस्य बाध्यत्वमुपपद्यते, फलजनननियतिमतः = स्वसाध्यफलोपधानाऽवश्यम्भावशालिनः कर्मणः केनाऽपि कदापि कुत्रापि अबाध्यत्वात् = अनिवर्तनीयत्वात् । अवश्यफलोपधायकसामर्थ्यवतः कर्मणः फलमसम्पाद्याऽनुपरमेण बलवतोऽपि पुरुषार्थादितोऽबाध्यत्वमिति भावः । प्रत्यक्षाऽनुमानादिना दिव्यदृशा व्यवहारदृशा च फलयोग्यतानिश्चयात् कर्मणो दारुगतप्रतिमायोग्यतातुल्यत्वोक्तिया॑य्या । पुरुषकारश्च प्रतिमानिष्पादनक्रियासदृशः । एतदभिप्रायेण उपदेशरहस्ये 'दारुसमं खलु दइवं पडिमातुल्लो अ पुरिसगारोत्ति' (उप.रह.४८) इत्युक्तम् । ___ ननु कर्मणः प्रतिमायोग्यतातुल्यत्वे कदापि बाध्यत्वं न स्यात् । न हि दार्वादेः प्रतिमायोग्यता कदापि निवर्तत इत्याशङ्कायामाह प्रयत्नेन = स्वाश्रयनिष्ठव्यापारविशेषेण इदमनियतभावकं कर्म निवर्तनीयं = फलजनने प्रतिस्खलनीयं, प्रतिमायोग्यतेव = यथा दार्वादेः देवादिप्रतिकृतिस्वरूपयोग्यता प्रतिमया = निष्पन्नदेवादिप्रतिकृत्या निवर्तते तद्वदिदं ज्ञेयं इत्यपि आचार्याः श्रीहरिभद्रसूरयः प्रचक्षते । _युक्तं हि कार्येण प्रागभावस्येवापवर्गेणाऽऽत्मगतभव्यत्वपरिणामस्येवाभिनवप्रतिमयोपल-दादिगतप्रतिमायोग्यत्वस्येवात्मनिष्ठपरिपक्वयत्नेनाऽनियतभावकदैवस्योपघात्यत्वमित्याशयः । यथोक्तं उपदेशपदे → दारुयमाईणमिणं पडिमाइसु जोग्गयासमाणत्तं । पच्चक्खादिपसिद्धं विहावियव्वं बुहजणेण ।। (उप.पद. ३४२) इति। तद्व्याख्या एवम् → दारुकादीनां = काष्ठोपलाम्रादीनां इदं = दैवं प्रतिमादिषु = प्रतिमा-देवकुल-पाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं = योग्यभावतुल्यमिति । कीदृशं सदित्याहप्रत्यक्षादिप्रसिद्धं = प्रत्यक्षाऽनुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं बुधजनेन = विपश्चिता लोकेन । तथा हि - यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यतां निश्चिन्वन्ति, कृषीवलादयस्तु मुद्गादिषु सामान्येन विवक्षितकार्यं प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा अंकुरोद्गमादिभिस्तैस्तैरुपायैः कार्ययोग्यतां समवधारयन्ति, एवं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । शेषास्तु तैस्तैः शकुनाद्युपायैरिति इत्युक्तं दैवलक्षणम् 6 (उप.पद ३४२ व्या.) इति ।
स्वकृतिसाध्यतया निश्चित्यापि सम्यक्प्रयत्नाऽकरणे विपरीतोपायकरणादौ वा न तादृशफललाभसम्भवः । यथोक्तं निशीथभाष्ये बृहत्कल्पभाष्ये च → सुहसाहगं पि कज्जं करणविहूणमणुवायसंजुत्तं । अन्नायऽदेस-काले विवत्तिमुवजाति ।। 6 (नि.भा.४८०३, बृ.क.भा.९४४) इति । यथोक्तं चाणक्यसूत्रे अपि → उपायपूर्वं न दुष्करं स्यात् (चा.सू.९४), अनुपायपूर्वं कार्यं कृतमपि नश्यति 6 (चा.सू.९५) इति । → कालेण कालं विहरेज्ज रट्टे बलाऽबलं जाणिय अप्पणो उ (उत्त. २१/१४) इति उत्तराध्ययनसूत्रोक्तिरपि प्रकृतार्थानुपातिनी द्रष्टव्या । → काले चरंतस्स उज्जमो सफलो भवति - (आचा.चू.१/२/५) इति पूर्वोक्तं(पृ.११७) आचाराङ्गचूर्णिवचनमपि सम्यक्पुरुषकारसाफल्यमावेदयति । एतेन → जेहिं काले परक्कंतं न पच्छा परितप्पए 6 (सू.कृ.१।३।४।१५) इति पूर्वोक्ता(पृ.८५४)
અનિયત સ્વભાવવાળું કર્મ પુરુષાર્થ દ્વારા દૂર કરી શકાય છે. જેમ પ્રતિમા દ્વારા પ્રતિમાયોગ્યતા દૂર કરાય છે તેમ. આવું શ્રી હરિભદ્રસૂરિજી કહે છે. १. मुद्रितप्रतौ 'सैव' इत्यशुद्धः पाठः। २. मुद्रितप्रतौ '..ग्यतैव' इत्यशुद्धः पाठः । ३. हस्तादर्श' प्रतिमे .' इत्यशद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jans