________________
• प्राचीनाऽर्वाचीनग्रन्थानुसारेणाऽदृष्टिसिद्धिः
११७९
तदिदमुक्तं भाष्यकृता - "जो तुल्लसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम घडो व्व हेऊ अ से कम्मं ।। " ( वि. आ. भा. १६१३) ।। १५ ।।
त्वात् = उत्तरकालीनत्वात्, समानजातीयदुग्धपानात्त्वेकस्य साक्षात्सुखाऽनुभवोऽपरस्य तु साक्षाद्दुःखाऽनुभव इत्यत्राऽदृष्टभेदमृते नाऽन्यत्किञ्चिद्वक्तुं पार्यत इति अदृष्टसिद्धिः । न च शरीरविशेषादेव सुखादिविशेषसिद्धिरिति वाच्यम्, शरीरविशेषाऽदर्शनेऽपि सर्वतोऽनुकूलवेदनीयोदये भोगविशेषदर्शनादिति वादमालायां अदृष्टवादे (वा.मा.पृ. १३५) स्पष्टमुक्तमेतद्ग्रन्थकृता । पित्तादिरसोद्बोध्यधातुवैषम्यादिविरहितदुग्धपानत्वादिना सुखादिहेतुत्वे गौरवात्, अदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेर्हेतुत्वौचित्याच्चेति व्यक्तं स्याद्वादकल्पलतायाम् (स्या. क. १/९२) ।
तन्दु लवैचारिक प्रकीर्णके अपि न वि जाई कुलं वा वि विज्जा वा वि सुसिक्खिया । तारेइ नरं व नारीं वा सव्वं पुण्णेहिं वड्ढई ।। ← (त. वै.६२ ) इत्येवं दैवे सुखसामग्रीयोग- क्षेमवृद्ध्यादिकारित्वमुपदर्शितम् । तदिदमुक्तं भाष्यकृता = विशेषावश्यकभाष्यकारेण जिनभद्रगणिक्षमाश्रमणेन 'जो तुल्ले 'ति । अत्र च मलधारवृत्तिरेवं इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरनिष्टाऽर्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुख-दुःखाऽनुभवनलक्षणे विशेषः तारतम्यरूपो दृश्यते नासौ अदृष्टं कमपि हेतुमन्तरेण उपपद्यते, कार्यत्वात् घटवत् । यश्च तत्र विशेषाऽऽधायकोऽदृष्टहेतुस्तद् गौतम ! कर्म इति प्रतिपद्यस्वेति ← (वि. आ.भा. १६१३ मल. वृत्ति) ।
इदमेवोपजीव्य श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां तुल्लफलसाधगाणं तुल्लारंभाण इट्ठविसयम्मि । दीसइ य फलविसेसो स कहं अदिट्ठभावम्मि ।। ← (धर्मसं. १४२ ) इत्युक्तमित्यवधेयम् । यथोक्तं वैराग्यकल्पलतायां अपि यस्तुल्यसाधनानां फले विशेषोऽपहेतुको नासौ । इति सुख-दुःखनिदाने धर्माधर्मो दुरापौ ।। ← (वै.क. २/११७ ) इति ।
किञ्चाऽऽत्मनो ज्ञानादिस्वभावत्वेऽपि तद्व्याघातदर्शनेन तद्व्याघातकतयाऽपि कर्म सिध्यति । तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां नाणादिपरिणतिविघायणादिसामत्थसंयं कम्मं । तं पुण अट्ठपगारं पण्णत्तं वीयरागेहिं ।। ← ( धर्मसं. ६०६ ) इति । पुरुषकारैकान्तनिराकरणाऽवसरे द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिरपि यदि प्रवर्त्तयितृत्वात् पुरुषकारः कारणं, न कर्मापीति चेत् ? तत इदमनिष्टं ते प्राप्तम्, उत्कर्षार्थिपुरुषकारैकत्वात् प्रधान - मध्यमाऽधमभेदभिन्नाः पुरुषकारा न स्युः, ततश्च तत्फलभूताः सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युः अव्यतिरिक्तकारणत्वात्, तुल्यतन्तुपटवत् ← (द्वा.न.अर-४/पृ.४६४ ) इत्युक्तमित्यवधेयम्ं ।
•
ધાતુમાં વૈષમ્ય તો ઉત્તરકાલીન હોય છે. જ્યારે સમાનજાતીય દુગ્ધપાનથી એકને તત્કાલ સુખાનુભવ અને બીજાને તત્કાલ દુ:ખાનુભવ થાય છે. તેમાં તો કર્મ સિવાય બીજું કશુંય નિયામક બની શકતું નથી. તેથી વિશેષાવશ્યકભાષ્યમાં જણાવેલ છે કે → ‘હે ગૌતમ! તુલ્યસાધનસામગ્રીવાળા જીવોને જે ફળભેદ વિભિન્ન ફળ દેખાય છે તે હેતુ વિના હોઇ ન શકે. કારણ કે તે કાર્ય છે, ઘટની જેમ. खने के हेतु ते अर्भ भरावं. '
(१७/१५)
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org