SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ • दैवोद्यमयोः मिथः सापेक्षता • ११६९ "व्यापारमात्रात् फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तदैवं चित्रं ज्ञेयं हिताहितम् ।। एवं पुरुषकारस्तु व्यापारबहुलस्तथा । फलहेतुर्नियोगेन ज्ञेयो जन्मान्तरेऽपि हि ।। अन्योऽन्यसंश्रयावेवं द्वावप्येतौ विचक्षणैः । उक्तौ” ।। (यो.बि.३२२-२३-२४) इति ।।११।। अत्रैव योगबिन्दुसंवादमाह कारिकात्रितयेन- 'व्यापारे'त्यादि । तद्व्याख्या चैवम्- व्यापारमात्रात्= तुच्छादपि व्यापारात् फलदं = स्वफलप्रदायि । निष्फलं = फलविकलं, क्वचित्तथाविधकाल-क्षेत्रादिबलवैकल्यात् महतोऽपि च अतः = पुरुषकारात् यत् कर्म तद् दैवं = दैवसंज्ञं चित्रं = नानारूपं ज्ञेयं हिताऽहितं = शुभाऽशुभरूपम् (यो.बि.३२२ वृत्ति) । एवं = कर्मवत् पुरुषकारस्तु = पुरुषकारोऽपि व्यापारबहुलः = 'व्यापारो बहुलः = भूयान् कर्मापेक्षया यत्र स तथा' । 'तथा' इति समुच्चये फलहेतुः = फलजनकः नियोगेन = निश्चयेन ज्ञेयो जन्मान्तरेऽपि हि न केवलमिह भव इत्यपिशब्दार्थः । यथा हि पुरुषकार इह तत्तच्चित्रफलः प्रत्यक्षत एवोपलभ्यते तथा जन्मान्तरेऽपि असौ तथाविधफलहेतुतया ज्ञातव्यः, तत्तद्व्यापारोपार्जितकर्मणः प्रेत्यफलमदत्वाऽपि निवृत्त्यभावादिति (यो.बि.३२३ वृत्ति)। उपसंहारमाह- अन्योऽन्यसंश्रयौ = परस्परोपष्टम्भौ एवं = उक्तक्रमेण द्वावप्येतौ दैव-पुरुषकारौ विचक्षणैः = विपश्चिद्भिः उक्तौ = भणितौ फलहेतुतयेति (यो.बि.३२४ वृत्ति) । तदुक्तं पार्श्वनाथचरित्रे → नीचैर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्वं, दृग्नाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे । निर्वाणं नारदेऽपि प्रशमपरिणतिः साऽपि चिलातीपुत्रे, इत्थं कर्मात्मवीर्ये स्फुटमिह जयतां स्पर्धया तुल्यरूपे ।। - (पा.च.२/पृ.४७) इति। तदुक्तं निश्चय-व्यवहारनयाभिप्रायप्रदर्शने योगबिन्दुवृत्तौ अपि → निश्चयनयमतेन दैव-पुरुषकारौ स्वकार्यकाले स्वप्रधानावेव वर्तेते इत्येवमनयोः तुल्यतेति । व्यवहारनयमतेन त्वेतौ परस्पराश्रयौ पर्यायेण प्राप्तप्रधान-गुणभावौ बाध्यबाधकभावापन्नौ वर्तेते इति तुल्यत्वमनयोर्भावनीयम् - (यो.बि.वृत्ति.गा.३३८) इति । जैनतन्त्राऽवस्थितेन तूभौ नयौ स्वीकार्यो । तदुक्तं आवश्यकनियुक्तौ → दिट्ठीय दो णया खलु ववहारो निच्छओ चेव - (आ.नि.८१५) । तदुक्तं विशेषावश्यकभाष्ये अपि → जइ जिणमयं पवज्जह तो मा ववहारनयमयं मुयह । ववहारपरिच्चाए तित्थुच्छेओ जओऽवस्सं ।। (वि.आ.भा.२३८२) इति । तीर्थोद्गालीप्रकीर्णकेऽपि → जइ जिणमतं पवज्जह ता मा ववहारदसणं मुयह । ववहारनउच्छेदे तित्थुच्छेदो जओऽवस्सं ।। - (तीर्थो.प्र.८६९) इत्युक्तम् । परेषामपि दैव-पुरुषकारयोः सापेक्षतयैवाऽर्थक्रियाकारित्वं सम्मतं परमार्थतः । तदुक्तं महाभारते → दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ।। 6 (म.भा.आदि.१२२/२१) इति । एतेन → येन यत्र कृतं कर्म स तत्रैव प्रजायते । पितरौ चास्य दासत्वं कुरुतः तत्प्रचोदितौ ।। 6 (शिवो.७/११०) इति शिवोपनिषद्वचनमपि व्याख्यातम् ।।१७/११।। કારણ કે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે કે સામાન્ય પ્રયાસથી પણ જે કર્મ ફળને આપે છે અને પુષ્કળ પ્રયાસ કરવા છતાં પણ જે કર્મ ફળદાયક બનતું નથી તે કર્મને નસીબ તરીકે ઓળખાવવું. શુભ અને અશુભ સ્વરૂપ તે કર્મ અનેકવિધ જાણવું. આ જ રીતે પુરુષાર્થ પણ નિશ્ચયથી વ્યાપારબહુલ ફલહેતુ જાણવો. જન્માન્તરનો પણ પુરુષાર્થ ફળહેતુ માનવો. આ રીતે ભાગ્ય અને પુરુષાર્થ સાપેક્ષ छ. म वियक्ष पुरुषोभे रावेद . + (१७/११) १. 'वित्तं' इति मुद्रितप्रतावशुद्धः पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy