SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ • उत्कर्षापकर्षयोरनवस्थितता • १०५५ ___ न च काकादिज्ञानव्यावृत्तं मनुष्यादिज्ञानसाधारणमुत्कर्ष नाम जातिविशेषमाद्रियन्ते भवन्तः, अन्यथा कार्यमात्रवृत्तिजातेः कार्यताऽवच्छेदकत्वनियमेन तदवच्छिन्नेऽनुगतकारणकल्पनाऽऽपत्तिः । 'ईश्वरज्ञानसाधारण्यान्न तस्य कार्यमात्रवृत्तित्वमिति' चेत् ? तथापि देवदत्तादिजन्यताऽवच्छेदिकयाऽपकर्षविशेषेण च साङ्कर्यान्न जातित्वं । ज्यादतिव्याप्तिर्दुरुद्धरैव । वेदप्रामाण्याभ्युपगन्तुर्ब्राह्मणस्य तु देवादिज्ञानापेक्षापकर्षशालिज्ञानावच्छेदकदेहविशिष्टत्वात् तत्र च क्षेत्रज्ञवृत्तित्वविशिष्टस्य देवादिज्ञानप्रतियोगिकोत्कर्षविशिष्टज्ञानावच्छेदकदेहसम्बन्धाभावस्यैव सत्त्वेन तत्प्रतियोगिकाभावविरहाद् निरुक्तलक्षणाऽव्याप्तिरपि दुर्वारैव । वस्तुतस्तु → क्षेत्रज्ञं चाऽपि मां विद्धि सर्वक्षेत्रेषु भारत ! - (भ.गी.१३/३) इति भगवद्गीतावचनात् पराभिमतस्येश्वरस्याऽपि क्षेत्रज्ञत्वाऽऽक्रान्तत्वात् तदवस्थ एव प्राक्तनोऽव्याप्त्यादिलक्षणो दोष इत्यवधेयम् । ___ ननु मनुष्यादिज्ञाने उत्कृष्टत्वाभिधाना जातिरेवाऽङ्गीक्रियताम्, काक-कीटिकादिज्ञाने चाऽपकृष्टत्वजातिरिति नैवोपदर्शितातिव्याप्त्यव्याप्तिसम्भव इति मुग्धस्य परस्याऽपसिद्धान्तदोषमपश्यत आशङ्कामपाकर्तुमुपक्रमते ग्रन्थकारः न च काकादिज्ञानव्यावृत्तं = काक-कीटिका-दन्दशूक-वृश्चिक-शुकादिज्ञाननिरूपितवृत्तिताशून्यं मनुष्यादिज्ञानसाधारणं = मानव-दानव-देवादिज्ञानसमवेतं उत्कर्षं नाम जातिविशेषं भवन्तो वेदप्रामाण्याभ्युपगन्तारो नैयायिका आद्रियन्ते = स्वीकुर्वन्ति, येनोक्तातिव्याप्त्याद्यपाकरणं सम्भवेत् । अत्रैव विपक्षबाधमाह- अन्यथा = काकादिज्ञानव्यावृत्त-मनुष्यादिज्ञानानुगतोत्कृष्टत्वाभिधानजात्यङ्गीकारे तु कार्यमात्रवृत्तिजातेः = अकार्याऽसमवेतजातेः कार्यतावच्छेदकत्वनियमेन = जन्यतावच्छेदकत्वाऽऽक्रान्तत्वराद्धान्तेन भवदङ्गीकृतेन तदवच्छिन्ने = मानवादिज्ञानसमवेतोत्कृष्टत्वावच्छिन्नं प्रति अनुगतकारणकल्पनापत्तिः दुर्निवारैव, घटत्वावच्छिन्नं प्रति दण्डत्वाद्यवच्छिन्नकारणताकल्पनावत् । ज्ञानीयोत्कर्षावच्छिन्नकार्यतानिरूपितकारणताऽवच्छेदकाऽऽश्रयकल्पनाऽऽवश्यकतयाऽभिनवकार्यकारणभावाऽभ्युपगमप्रसङ्ग इत्याकूतम् । नन्वीश्वरस्याऽपि शिष्टत्वेनाभिमतत्वात्तदीयवेदप्रामाण्यग्रहेऽप्युत्कृष्टत्वमभ्युपेयमेव । महेशज्ञानस्य तु न कार्यत्वाऽऽक्रान्तत्वम् । इत्थञ्च ईश्वरज्ञानसाधारण्यात् = ईश्वरीयज्ञानसमवेतत्वात् न = नैव तस्य उत्कृष्टत्वस्य कार्यमात्रवृत्तित्वं = जन्यताऽऽश्रयाऽतिरिक्ताऽसमवेतत्वम् । ततश्च काकादिज्ञानव्यावृत्तस्य भवानीपति-नरपति-देवपत्यादिज्ञानाऽनुगतस्योत्कृष्टत्वस्य जातित्वाऽङ्गीकारेऽपि न काचित्क्षतिरस्माकमिति चेत् ? ग्रन्थकृदुत्तरपक्षयति- तथापि = ज्ञानीयोत्कर्षस्य कार्याऽकार्यवृत्तित्वस्वीकारेऽपि देवदत्तादिजन्यतावच्छेदिकया अपकर्षविशेषेण च साङ्कर्यात् न उत्कर्षस्य जातित्वं सम्भवति । तथाहि- उत्कर्षस्येवाऽવેદપ્રામાણ્યવાદી બ્રાહ્મણો માનતા નથી. બાકી તો કાર્યમાત્રમાં રહેનાર જાતિ કાર્યતાઅવચ્છેદક હોવાના નિયમના લીધે ઉત્કર્ષજાતિથી વિશિષ્ટ પ્રત્યે અનુગત કારણની કલ્પના કરવાની સમસ્યા ઊભી થાય. જો કે ઈશ્વરજ્ઞાનમાં પણ ઉત્કર્ષ રહેલ હોવાથી તે કાર્યમાત્રવૃત્તિ બની ન શકે તો પણ તેને જાતિવિશેષ સ્વરૂપે તો માની ન જ શકાય. આનું કારણ એ છે કે દેવદત્તાદિની જન્યતાઅવચ્છેદક જાતિ સાથે અને અપકર્ષવિશેષની સાથે સાંકર્મ આવે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy