SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ • स्वापदशायामतिव्याप्तिः • प्राक्तनकाकशरीरसम्बन्धप्रागभावस्तु न तत्समानकालीन वेति । तस्यैव च ब्राह्मणभवत्यागाऽनन्तरं काकशरीराऽग्रहदशायां प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरसम्बन्धप्रागभावेनाऽतिव्याप्तिरिति । किं च यो ब्राह्मणः प्राग् बौद्धो वृत्तस्तस्य स्वापादिदशायां वेदाऽप्रामाण्याऽभ्युपगमविरहस्यान च तदानीं प्राक्तनकाकदेहसम्बन्धप्रागभावस्य विनष्टत्वान्न स वेदाऽप्रामाण्यानभ्युपगमः तादृशाऽभावकूटसमकालीन इति नातिव्याप्तिरिति वाच्यम्, यतः प्राक्तनकाकशरीरसम्बन्धप्रागभावस्तु न एव तत्समानकालीनः नैव देवदत्ताख्यब्राह्मणभवीयस्वारसिक-वेदप्रामाण्यग्रहसमकालीनः, तदानीं तस्याऽसत्त्वादिति न स तादृशाभावकूटप्रविष्टः, येन तदुच्छेदे ऽतिव्याप्तिनिराकरणं सम्भवेत् । प्रकृतलक्षणे तु वेदप्रामाण्यग्रहसमानकालीना येऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावास्तत्कूटसमानकालीनत्वमेव वेदाऽप्रामाण्यानभ्युपगमे विवक्षितम् । वेदप्रामाण्यग्रहश्च यः कश्चिदपि ग्राह्यः । ततोऽनागतकालीनवेदप्रामाण्यग्रहस्य शिष्टाचारलक्षणनिवेशोपगमे तदसमानकालीनत्वादेव प्राक्तनकाकदेहसंसर्गप्रागभावस्य न तत्र निवेश इति वज्रलेपायितैवातिव्याप्तिरिति भावः 1 अथानागतकालीनवेदप्रामाण्यग्रहस्याऽनुत्पन्नत्वादेव न तल्लक्षणमध्ये प्रवेशः सम्भवतीति प्राक्तनकालीनमेव वेदप्रामाण्याभ्युपगन्तृत्वमुपादेयमिति नैव काकमरणोत्तरमप्राप्तब्राह्मणदेहेऽतिव्याप्तिर्लब्धप्रसरा, प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमकालीनाऽऽद्यकाकशरीरसम्बन्धप्रागभावस्य तदानीं विनष्टत्वेन वेदाऽप्रामाण्यग्रहाभावस्य तत्समकालिकत्वप्रच्यवादिति चेत् ? न, एवं सति तस्यैव च चैत्राभिधानब्राह्मणोत्तरकाकभवोत्तरदेवदत्ताख्यब्राह्मणस्यैव वेदप्रामाण्याभ्युपगन्तुः ब्राह्मणभवत्यागानन्तरं काकशरीराऽग्रहदशायां द्वितीयकाकदेहानुपादानकाले प्राक्तनब्राह्मणभवकालीन - वेदप्रामाण्याभ्युपगमसमानकालीनकाकशरीरसम्बन्ध-प्रागभावेन देवदत्ताऽभिधानब्राह्मणभवीयस्वारसिकवेदप्रामाण्यग्रहसमकालिको यो द्वितीयकाकदेहसम्बन्ध-प्रतियोगिकः प्रागभावः तेनैव तदानीं तत्र विद्यमानेन शिष्टलक्षणसाम्राज्यात् सैव दुरुद्धरा अतिव्याप्तिः । न हि तदानीं काकभवीयवेदाप्रामाण्यानभ्युपगमस्य देवदत्तभवीयवेदप्रामाण्यग्रहसमकालीनाऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटसमकालीनत्वमपह्नोतुं शक्यते सुरगुरुणाऽपि तादृशाऽभावकूटान्तर्गतस्य देवदत्तभवीयवेदप्रामाण्यग्रहसमानकालीनस्य द्वितीयकाकदेहसम्बन्धप्रागभावस्य तदानीमनपायादेव । स्थलान्तरेऽतिव्याप्तिमाविष्करोति - किञ्चेति । यो ब्राह्मणः स्वारसिकवेदप्रामाण्याभ्युपगन्ता प्राग् કાકશરીરસંબંધપ્રાગભાવ તો તૃતીયભવગત વેદપ્રામાણ્યસ્વીકારનો સમકાલીન ન હોવાથી ત્યારે તેનો લક્ષણગત અભાવકૂટમાં પ્રવેશ નથી થતો. માટે તેની ગેરહાજરી હોવા છતાં શિષ્ટલક્ષણ તો ત્યારે વિદ્યમાન જ રહેવાથી અતિવ્યાપ્તિ દૃઢ થશે. = = १०५१ १. मुद्रितप्रतौ 'च' नास्ति । २. हस्तादर्शे '... वेनाव्याप्ति... ' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only = तस्यैव । वणी, ते तृतीयभवनो = द्वितीय ब्राह्मणभवनो त्याग अर्था पछी ते ४ व पापोध्यथी કાગડો થવાનો હોય પણ હજુ સુધી કાકશરીરને ગ્રહણ કરેલ નથી તેવી દશામાં પૂર્વના દ્વિતીયબ્રાહ્મણભવકાલીન વેદપ્રામાણ્યસ્વીકારને સમાનકાલીન એવો કાકશરીરસંબંધપ્રાગભાવ હાજર હોવાથી અતિવ્યાપ્તિ આવશે. किञ्च । वणी, ४ ब्राह्मए। पूर्वे जौद्ध रतो तेने निद्रा वगेरे अवस्थामां के वेहप्रामाएयस्वी अरसलाव www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy